Proofing

This page has not been fully proofread.

सर्गः ११]
 
उग्र भैरववधः
 
आकर्ण्य तां पद्मपदस्य वाणीमानन्दममैरखिलैरभावि ।
जगर्ज चोच्चैर्जगदण्डभाण्डं भूना स्वधाम्ना दलयन नृसिंहः ॥
ततस्तदार्भाटचलत्समाधिः स्वात्मप्रबोधोन्मथितत्र्युपाधिः ।
उन्मील्य नेत्रे विकरालवक्तं व्यलोकयन्मानवपञ्चवक्तम् ॥
चन्द्रांशुसोदर्यसटाजटालं तार्तीयनेत्राव्जकनन्निटालम् ।
सहोदुष्णांशु सहस्रमासं विध्यण्ड विस्फोटकृदट्टहासम् ॥
नखाग्रनिर्भिन्नकपालिवक्षःस्थलोञ्चलच्छोणितपङ्किलाङ्कम् ।
 
119
 
५२
 
५३
 
५४
 
श्रीवत्सवत्सं गलवैजयन्ती श्रीरत्न संस्पर्धितदन्त्रमालम् ॥
 
५५
 
सुरासुरवास करातिघोरखाकारसारव्यथिताण्डकोशम् ।
दंष्ट्रकरालानन निर्यदग्निज्वालालिसेलीढनभोवकाशम् ॥
 
५६.
 
स्वरोमकूपोद्गत विस्फुलिङ्गमचारसंदीपितसर्वलोकम् ।
जम्भद्विडुज्जृम्भितशम्भुदम्भसंस्तम्भनारम्भकदन्तपेषम् ॥
 
५७
 
मा भूदकाण्डे पलयो महात्मन् कोपं नियच्छेति गृणद्भिरारात् ।
ससाध्वसैः प्राञ्जलिभिः सगात्रकम्पैर्विरिञ्च्यादिभिरर्ध्यमानम् ॥ ५८
विलोक्य विद्युच्चपलो ग्रजिह्वं यतिक्षितीशः पुरतो नृसिंहम् ।
अभीतिरैडिट तदोपकण्ठं स्थितोऽपि हर्षाश्रुपिनद्धकण्ठः ।
नरहरे हर कोपमर्थदं तत्र रिपुर्निहतो भुवि वर्तते ।
कुरु कृपां मयि देव सनातनीं जगदिदं भयमेति भवदृशा ॥
 
तव वपुः किल सत्वमुदाहृतं तत्र हि कोपनमण्वपि नोचितम् ।
तदिह शान्तिमवामुहि शर्मणे हरगुणं हरिराश्रयसे कथम् ॥
सकलभीतिषु दैवतम स्मरन् सकलभीतिमपोह्य सुखी पुमान् ।
भवति किं वदामि तवेक्षणे परमदुर्लभमेव तवेक्षणम् ॥
 
स्मृततस्तव पादसरोरुहं मृतवतः पुरुषस्य विमुक्तता ।
तव कराभिहतोऽमृत भैरवो न हि स एष पुनर्भवमेध्यति ॥
 
५९
 
६०
 
६१
 
६२
 
६३