Proofing

This page has not been fully proofread.

118
 
श्रीमच्छङ्करदिग्विजये
 
सटाच्छटास्फोटितमेघ संघस्तीवारवत्रासितभूतसंघः ।
संवेगसंमूच्छित लोकसंघ: किमेतदित्या कुलदेवसंघः ॥
क्षुभ्यत्समुद्रं समुदृढरौद्रं रटन्निशाटं स्फुटदद्रिकूटम् ।
ज्वल दिशान्तं प्रचलद्धरान्तं प्रभ्रश्यदक्षं दलदन्तरिक्षम् ॥
जवादभिद्रुत्य शितस्वरूयैर्दैत्येश्वरस्येव पुरा नखायैः ।
क्षिपत्तिशुलस्य स तस्य वक्षो ददार विक्षिप्तसुरारिपक्षः ॥
तत्ताहगत्युग्रनखायुधायो दंष्ट्रान्तरप्रोतदुरीहदेहः ।
निन्ये तदानीं नृहरिर्विदीर्ण युपट्टनाट्टालिकमट्टहासम् ।
 
[ एकादशः
 
४०
 
४१
 
४२
 
४३
 
आकर्णस्तं निनदं बहिर्गता उपागमन्ना कुलचित्तवृत्तयः ।
व्यलोकयन् भैरवमग्रतो मृतं ततो विमुक्तं च गुरुं सुखोषितम् ॥ ४४
प्रहृदश्यो भगवान् कथं वा प्रसादितोऽयं नृहरिस्त्वयेति ।
सविस्मयैः स्त्रिग्धजनैः स पृष्टः सनन्दनः सस्मितमित्यवादीत् ॥ ४५
 
पुरा किलाई बलभूधरा पुण्यं समाश्रित्य किमप्यरण्यम् ।
भक्तैकवश्यं भगवन्तमेनं ध्यायन्ननेकान् दिवसाननैषम् ॥
किमर्थमेो गिरिगह्वरेऽस्मिन् वाचंयम त्वं वससीति शश्वत् ।
केनापि पृष्टोsa किरातयूना प्रत्युत्तरं प्रागहमित्यवोचम् ॥
आकण्ठमत्यद्भुतमर्त्यमूर्तिः कण्ठीरवात्मा परतश्च कश्चित् ।
मृगो वनेऽस्मिन् मृगयो वसन्मे भवत्यहो नाक्षिपथे कदापि ॥
इतीग्यत्येव मयि क्षणेन वनेचरोऽयं प्रविशन् वनान्तम् ।
निबध्य गाढं नृहरि लताभिः पुण्यैरगण्यैः पुरतो न्यधान्मे ॥
महर्षिभिस्त्वं मनसाप्यगम्यो वनेचरस्यैव कथं वशेऽभूः ।
इत्यद्भुताविष्टा मयाऽसौ विज्ञाप्यमानो विभुरित्यवादीत् ॥
एकाग्रचित्तेन यथाऽमुनाहं ध्यातस्तथा धातृमुखैर्न पूर्वैः ।
नोपाळ भेयास्त्वमितीरयन्मे कृत्वा प्रसादं कृतवांस्तिरोधिम् ॥
 
४६
 
४७
 
४८
 
४९
 
५०
 
५१