Proofing

This page has not been fully proofread.

सर्गः १]
 
उग्रमैश्ववधः
 
तौ संविदं वितनुतामिति संप्रहृष्टौ
योगी जगाम मुदितो निलयं मनस्वी ।
श्रीशङ्करोऽपि निजधामनि जोषमास
पांचे न किंचिदपि भावमसौ मनोगम् ॥
 
शूली त्रिकुण्डी पुरतोऽवलोकी कंकालमालाकृतगात्रभूषः ।
संरक्तनेत्रो मदघूर्णिताक्षो योगी ययौ देशिकवासभूमिम् ॥
शिष्येषु शिष्टेषु विदुग्गेषु स्नानादिकार्याय विविक्तभाजि ।
श्रीदेशिकेन्द्रे तु सनन्दनाख्पभीत्या स्वदेहं व्यवधाय गूढे ॥
 
117
 
२९
 
३०
 
३१
 
तं भैरवकारमुदीक्ष्य देशिकस्त्यक्तुं शरीरं व्यधित स्वयं मनः ।
आत्मानमात्मन्युदयुक्त यो जपन् समाहितात्मा करणानि संहरन् ॥ ३२
तं भैरवोऽलोकत लोकपूज्यं स्वसौख्यतुच्छीकृत देवराज्यम् ।
योगीशमासादितनिर्विकल्पं सनत्सुजातप्रभृतेरनल्पम् ॥
 
३३
 
जत्रुपदेशे चिबुकं निधाय व्यात्ताम्यमुत्तानकरौ निधाय
जानुपरि प्रेक्षितनासिकान्तं विलोचने सामि निमील्य कान्तम् ॥ ३४
आसीनमुच्चीकृतपूर्वगात्रं सिद्धासनं शेषितबोधमात्रम् ।
चिन्मात्रविन्यस्तहृषीकवर्ग समाधिविस्मारितविश्वसर्गम् ॥
 
विलोक्य तं हन्तुमपास्तशङ्कः स्वबुद्धिपूर्वार्जिततीव्रपङ्कः ।
प्रापोचतासिः सविधं स यावद्विज्ञातवान् पद्मपदोऽपि तावत् ॥
त्रिशूलमुद्य निहन्तुकामं गुरुं यतात्मा समुदेक्षतान्तः ।
स्थितश्चुकोप ज्वलिताग्निकल्पः स पद्मपादः स्वगुरोर्हितैषी ॥
स्मरन्नथैष स्मरदार्तिहारि महादवश्यं परमं महस्तत् ।
स मन्त्रसिद्ध नृहरेनृसिंहो भूत्वा ददर्शो दुरीहचेष्टशम् ॥
स तत्क्षणक्षुब्धनिजस्वभावः प्रवृद्धरुड् विस्मृतमर्त्यभावः ।
आविष्कृतात्युग्रनृसिंहभावः समुत्पपातातुलितप्रभाव: ॥
 
३५
 
३६
 
३७
 
३८
 
३९