Proofing

This page has not been fully proofread.

116
 
श्रीमच्छङ्करदिग्विजये
 
[ एकादशः
 
जनाः परक्लेशकथानभिज्ञा नक्तं दिवा स्वार्थकृतात्मचित्ताः ।
रिपुं निहन्तुं कुलिशाय वज्री दाधीन्वमादात्किल वाञ्छितास्थि । १७
दधीचिमुख्याः क्षणिकं शरीरं त्यक्त्वा परार्थे स्म यशः शरीरम् ।
प्राप्य स्थिरं सर्वगतं जगन्ति गुणैरनयैः किल रञ्जयन्ति ॥
 
वपुर्धरन्ते परतुष्टिहेतोः केचित्प्रशान्ता दयया परीताः ।
 
१८
 
२१
 
२२
 
अस्मादृशाः केचन सन्ति लोके स्वार्थेकनिष्ठा दयया विहीनाः ॥ १९
परोपकारं न विनाऽस्ति किंचित्प्रयोजनं ते विधुतैषणस्य ।
अस्मादृशाः कामवशास्तु युक्तायुक्ते विजानन्ति न हन्त योगिन् ॥ २०
जीमूतवाहो निजजीवदायी दधीचिरप्यस्थि मुदा ददानः ।
आचन्द्रतारार्कमपायशून्यं प्राप्तौ यशः कर्णपथं गतौ हि ॥
यदप्यदेयं ननु देहवद्भिर्मयाऽर्थितं गर्हितमेव सद्भिः ।
तथाऽपि सर्वत्र विरागवद्भिः किमस्त्यदेयं परमार्थविद्भिः ॥
अखण्ड मूर्धन्य कपालमाहुः संसिद्धिदं साधकपुङ्गवेभ्यः ।
विना भवन्तं बहवो न सन्ति तद्वत्पुमांसो भगवन् पृथिव्याम् ॥
प्रयच्छ शीर्ष भगवन्नमः स्वादितीरयित्वा पतितं पुरस्तात् ।
तमब्रवीद्वीक्ष्य सुधीरधस्तात्कृपालुरावृत्तमनाः समस्तात् ॥
नैवाभ्यसूयामि वचस्त्वदीयं प्रीत्या प्रयच्छामि शिरोऽस्मदीयम् ।
को वार्थिसात्माज्ञतम नृकायं जानन्न कुर्यादिहि बहपायम् ॥
पतत्यवश्यं हि विकृष्याणं कालेन यत्नादपि रक्ष्यमाणम् ।
वर्मामुना सिध्यति चेत्परार्थः स एव मर्त्यस्य परः पुमर्थ: ॥
 
२३
 
२४
 
२५
 
२६
 
वर्ते विविक्तेऽधिसमाधि सिद्धिविनिमयः समायाहि करोमि ते मतम् ।
 
नाहं प्रकाशं वितरीतुमुत्सहे शिरःकपालं विजनं समाश्रय ॥
 
२७
 
शिष्या विदन्ति यदि चिन्तित कार्यमेतत्
 
योगिन मदेकशरणा विहति विदध्युः ।
 
को वा सहेत वपुरेतदपोहितुं स्वं
 
को वा क्षमेत निजनाथशरीरमोक्षम् ॥
 
२८