Proofing

This page has not been fully proofread.

सर्गः ११]
 
उग्रभैरववधः
 
त्वमेक एवात्र निरस्तमोह: पराकृतद्वैतिवचः समूहः ।
आभास दूरीकृतदेहमानः शुद्धाद्वये यो जितसर्वमानः ॥
परोपकृत्यै प्रगृहीतमूर्तिरमर्त्यलोकेष्वपि गीतकीर्तिः ।
कटाक्षलेशार्दितसज्जनार्तिः सदुक्तिसम्पादित विश्वपूर्तिः ॥
गुणाकरत्वाद्भुवनैकमान्यः समस्त वित्त्वादभिमानशून्यः ।
विजित्वरत्वाद्गलहस्तितान्यः स्वात्मप्रदत्वाच्च महावदान्यः ॥
अशेष कल्याणगुणालयेषु परावरज्ञेषु भवादृशेषु ।
कार्यार्थिनः काप्यनवाप्य कामं न यान्ति दुष्प्रापमपि प्रकामम् ॥
तस्मान्महत्कार्यमहं प्रपय निर्वर्तितं सर्वविदा त्वयाऽद्य ।
कपालिनं प्रीणयितुं यतिष्ये कृतार्थमात्मानमतः करिष्ये ॥
अनेन देहेन सहैव गन्तुं कैलासमीशेन समं च रन्तुम् ।
अतोषयं तीव्रतपोभिरूयं सुदुष्करैरब्दशतं समग्रम् ॥
 
तुष्टोऽब्रवीन्मां गिरिश: पुमर्थमभीप्सितं प्राप्स्यसि मत्प्रियार्थम् ।
जुहोषि चेत्सर्वविदः शिरा वा हुताशने भूमिपतेः शिरो वा ॥
 
एतावदुक्तत्वाऽन्तरधान्महेास्तदादि तत्संग्रहणे धृताश: ।
चराम्यथापि क्षितिपा न लब्धो न सर्ववित्तत्र मयोपलब्धः ॥
fagers लोकस्य हिते चरन्तं सर्वज्ञमद्राक्षमहं भवन्तम् ।
इतःपरं सेत्स्यति मेनुबन्धः संदर्शनान्तो हि जनस्य बन्धः ॥
मूर्धाभिषिक्तत्य शिरःकपालं मुनीशितुर्वा मम सिद्धिहेतुः ।
आद्यं पुनर्मे मनसाऽप्यलभ्यं ततः परं तत्रभवान् प्रमाणम् ॥
 
शिरःप्रदानोऽद्भुतकीर्तिलाभस्तत्रापि लोके मम सिद्धिलाभ: ।
आलोच्य देहस्य च नश्वरत्वं यद्रोचते सत्तम तत्कुरु त्वम् ॥
तद्याचितुं न क्षमते मनो मे को वेष्टदायि स्वशरीरमुज्झतु ।
भवान्विरक्तो न शरीरमानी परोपकाराय धृतात्मदेहः ॥
 
115
 

 

 
१०
 
११
 
१२
 
१३
 
१४
 
१५
 
१६