Proofing

This page has not been fully proofread.

114
 
श्रीमच्छङ्करदिग्विजये
 
[ एकादशः
 
वेदान्तीकृतनी चशुद्रवचसो वेदा: स्वयं कल्पनाः
पापिष्ठाः स्वमपि त्रयीपथमपि प्रायो दहन्तः खलाः ।
साक्षाद्रह्मणि शङ्करे विदधति स्पर्धानिबद्धां मि
 
कृष्णे पौण्ड्रकवत्तथा न चरमां किं ते लभन्ते गतिम् ॥ ११७
वाणी काणभुजी च नैव गणिता लीना कचित्कापिली
शैवं चाशिवभावमेति भजते गपदं चार्हतम् ।
दौर्गे दुर्गतिमनुते भुवि जनः पुष्णाति को वैष्णवं
 
निष्णातेषु यतीशसूक्तिषु कथा केली कृतासूक्तिषु ॥ ११८
तथागतकथा गता तदनुयायि नैयायिकं
 
वचोऽजनि न चोदितो वदति जातु तौतातितः ।
विदग्धति न दग्धधीर्विदितचापलं कापिलं
 
विनिर्दय विनिर्दल द्विमत सङ्करे शङ्करे ॥
 
इति श्रीमाधवीये तत्कलाज्ञत्वमपश्ञ्चनम् ।
संक्षेपशङ्करजये सर्वोऽयं दशमोऽभवत् ॥ १० ॥
आदितः श्लोकाः 1148.
 
अथैकादशः सर्गः
 
उग्रभैरववधः ॥
 
॥ ११ ॥
 
तत्रैकदाच्छादितनैजदोषः पौलस्त्यवत्कल्पितसाधुवेषः ।
निर्मानमायं स्थितकार्यशेषः कापालिकः कश्चिदनल्पदोषः ॥
 
असावपश्यन्मदनाद्यवश्यं वश्येन्द्रियावैर्मुनिभिर्विमृग्यम् ।
आदिश्य भाष्यं सपदि प्रशस्यमासीनमाश्रित्य मुनि रहस्यम् ॥
 
हृष्टः स चिरादभीष्टं निर्धार्थ संसिद्धमित्र स्वमिष्टम् ।
महद्विशिष्टं निजलाभतुष्टं विस्पष्टमाचष्ट च कृत्यशिष्टम् ॥
गुणांस्तवाकर्ण्य मुनेऽनवद्यान्सार्वश्यसौशील्यदयालुताद्यान् ।
द्रष्टुं समुत्कण्ठितचित्तवृत्तिर्भवन्तमागां विदितप्रवृत्तिः ॥
 
११९
 

 

 
x