Proofing

This page has not been fully proofread.

सर्गः ९०]
 
राजदेहप्रवेशादिकथनम्
 
इति वशीकृतमण्डनपण्डितः प्रणतसत्करणत्रयदण्डितः ।
सकलसद्गुणमण्डलमण्डितः स निरगात् कृतदुर्मतवण्डितः ॥
 
कुसुमितविविधपलाशभ्रमद लिकुलगीतमधुरखनम् ।
पश्यन् विपिनमयासीदाशां कीनाशपालितामेषः ॥
 
तत्र महाराष्ट्रखे देशे ग्रन्थान् प्रचारयन् प्राज्ञतमः ।
शमिततान्तरमानः शनकैः सनकोपमोऽगमच्छ्रीशैलम् ॥
 
113
 
१०६
 
१०७
 
१०८
 
प्रफुल्ल मल्लिकावनप्रसङ्गसङ्गतामितप्रकाण्ड गन्धबन्धु रमत्रातधूतपादपम् ।
सदामद द्विपाधिपवहार शुर केस रिव्रजं भुजंगभूषण प्रियं स्वयंभुकौशलम् ॥
 
कलिकल्मषभङ्गायां सोऽद्रेराराच्चत्तरङ्गायाम् ।
 
अधरीकृततुङ्गायां सत्रौ पातालगा मिगङ्गायाम् ॥
 
११०
 
नममोहभङ्ग नभोले हिशृङ्गं त्रुटत्पापसङ्गं रटत्पक्षभृङ्गम् ।
समाश्लिष्टङ्गं प्रहृष्टान्तरङ्गं तमारुह्य तु ददर्शेशलिङ्गम् ॥
 
१११
 
प्रणमद्भवबीजभर्जनं प्रणिपत्यामृत सम्पदार्जनम् ।
 
प्रमोद स मल्लिकार्जुनं भ्रमराम्बासचिवं नतार्जुनम् ॥
 
११२
 
तीररुहैः कृष्णायास्तीरेऽवात्सीतिरोहितोष्णाया: ।
 
आवर्जिततृष्णाया आचार्येन्द्रो निरस्तकार्ष्यायाः ॥
 
११३
 
तत्रातिचित्र पदमत्रभवान् पवित्रकीर्तिर्विचित्रसुचरित्रनिधिः सुधीन्द्रान् ।
अग्राहयत्कृतमसग्रह निग्रहार्थमय्यान समग्रसुगुणान् महदययायी ॥
 
अध्यापयन्तमसदर्थनिरासपूर्व किन्त्वन्यतीर्थयशसं श्रुतिभाष्यजातम् ।
आक्षिप्य पाशुपतवैष्णववीरशैवमाहेश्वराश्च विजिता हि सुरेश्वरायैः ॥
केचिद्विसृज्य मतमात्म्यममुष्य शिष्य-
भावं गता विगतमत्सरमानदोषाः ।
 
अन्ये तु मन्युवशमेत्य जघन्यचित्ता
निन्युः क्षणं निधनमस्य निरीक्षमाणाः ॥
 
११६