2026-04-30 05:37:42 by ambuda-bot
This page has not been fully proofread.
112
श्रीमच्छङ्करदिग्विजये
परिपक्कपतेः सकृच्छ्रतं जनयेदात्मधियं श्रुतेर्वचः ।
परिमन्दमतेः शनैः शनैर्गुरुपादाब्जनिषेवणादिना ॥
प्रणवाभ्यसनोक्तकर्मणोः करणेनापि गुरोर्निषेवणात् ।
अपगच्छति मानसं मलं क्षमते तच्चमुदीरितं ततः ॥
[दशमः
९५
९६
९७
९८
९९
१००
मनोऽनुवर्तेत दिवानिशं गुरौ गुरुर्हि साक्षाच्छिव एव तत्त्ववित् ।
निजानुवृत्या परितोषितो गुरुर्विनेयवक्तुं कृपया हि वीक्षते ॥
सा कल्पवल्लव निजेष्टपर्थ फलत्यवश्यं किमकार्यमस्याः ।
आज्ञा गुरोस्तत्परिपालनीया सा मोदमानीय विधातुमिष्टा ॥
गुरूपदिष्टा निजदेवता चेत्कुप्येत्तदा पालयिता गुरुः स्यात् ।
रुष्टे गुरौ पालयिता न कश्चिद्गुरौ न तस्माज्जनयेत कोपम् ॥
पुमान् पुमर्थ लभतेऽपि चोदितं भजन्निवृत्तः प्रतिषिद्धसेवनात् ।
विधि निषेधं च निवेदयत्यसौ गुरोरनिष्टच्युतिरिष्टसंभवः ॥
आराधितं दैवतममर्थं ददाति तस्याधिगमो गुरोः स्यात् ।
नो चेत्कथं वेदितुमीश्वरोऽयमतीन्द्रियं दैवतमिष्टदं नः ॥
तुष्टे गुरौ तुष्यति देवतागणो रुष्टे गुरौ रुष्यति देवतागण: ।
सदाऽऽत्मभावेन सदात्मदेवताः पश्यन्नसौ विश्वमयो हि देशिकः ॥ १०२
एवं पुराणगुरुणा परमात्मतत्त्वं शिष्टो गुरोश्चरणयोर्निपपात तस्य ।
धन्योऽस्म्यहं तव गुरो करुणाकटाक्षपातेन पातिततमा इति भाषमाणः ॥
ततः स संप्राप्य सुरेश्वराख्यां दिगङ्गनाभिः क्रियमाणसख्याम् ।
सच्छिष्यतां भाष्यकृतश्च मुख्यामवाप तुच्छीकृतधातृसौख्याम् ॥ १०४
निखिल निगमचूडा चिन्तया इन्त यावत्
स्वमवधिक सौख्यं निर्विशनिर्विशङ्कम् ।
बहुतिथमभितोऽसौ नर्मदां नर्मदां तां
मगधभुवि निवासं निर्ममे निर्ममेन्द्रः ॥
१०१
१०५