2026-04-30 05:37:42 by ambuda-bot
This page has not been fully proofread.
सर्गः १० ]
राजदेहप्रवेशादिकथनम
111
नाहंकृतिश्चरमधातुपदप्रयोगात् प्राणा मदीया इति लोकवादात् ।
प्राणोऽपि नाऽऽत्मा भवितुं प्रगल्भः सर्वोपसंहारिणि सन् सुषुप्ते ॥ ८४
एवं शरीराद्य विविक्त आत्मा त्वंशब्दवाच्योऽभिहितोऽत्र वाक्ये ।
तदोदितं ब्रह्म जगन्निदानं तथा तथैक्यं पदयुग्मबोध्यम् ॥
कथं तदैक्यं प्रतिपादयेद्वचः सर्वज्ञ संमूढपदाभिषिक्तयोः ।
न कता संतमप्रकाशयोः संदृष्टपूर्वा न च दृश्यतेऽधुना ॥
८५
८६
सत्यं विरोधगतिरस्ति तु वाच्यगेयं सोऽयं पुमानितिवदत्र विरोधहानेः ।
आदाय वाच्यमविरोधि पदद्वयं तल्लक्ष्यैक्यबोधनपरं ननु को विरोधः ॥
जहीहि देहादिगतामहंधियं चिरार्जितां कर्मशठैः सुदुस्त्यजाम् ।
विवेकबुद्धया परमेव सन्ततं ध्यायाऽऽत्मभावेन यतो विमुक्तता ॥ ८८
साधारणे वपुषि काकशृगालवह्निमात्रादिकस्य ममतां त्यज दुःखहेतुम् ।
तद्वज्जहीहि बहिरर्थगतां च विद्वंश्चित्तं बधान परमात्मनि निर्विशङ्कम् ॥
तीरात्तीरं संचरन् दीर्घमत्स्यस्तीराद्भिन्नो लिप्यते नापि तेन ।
एवं देही संरञ्जायदादौ तस्माद्भिन्नो नापि तद्धर्मको वा ॥
जाग्रत्स्वम सुषुप्तिलक्षणमदोsवस्थात्रयं चित्तनौ
त्वय्येवानुगते मिथो व्यभिचरद्धीसंज्ञमज्ञानतः ।
क्लृप्तं रज्ज्वदमंशके वसुमतीच्छिद्राहिदण्डादिवत्
तद्ब्रह्मासि तुरीयमुज्झितभयं मा त्वं पुरेव भ्रमीः ॥ ९१
प्रत्यक्तमं परपदं विदुषोऽन्तिकस्थं
दूरं तदेव परिमूढमतेर्जनस्य ।
अन्तर्बहिश्च चितिरस्ति न वेति कवि-
चिन्वन् बहिर्बहिरहो महिमाऽऽत्मशक्तेः ॥
यथा पायां बहवो मिलन्ते क्षणे द्वितीये बत भिन्नमार्गाः ।
प्रयान्ति तद्बहुनामभाजो गृहे भवन्त्यत्र न कश्चिदन्ते ॥
९०
९२
९३
सुखाय यत् क्रियते दिवानिशं सुखं न किंचिद्बहुदुःखमेव तत् ।
बिना न हेतुं सुखजन्म दृश्यते हेतुश्च हेत्वन्तरसन्निधौ भवेत् ॥ ९४