2026-04-30 05:37:42 by ambuda-bot
This page has not been fully proofread.
110
श्रीमच्छङ्करदिग्विजये
[दशमः
७२
तथेति संश्रुत्य सरस्वती सा प्रायात्प्रियं धाम पितामहस्य ।
अदर्शनं तत्र समीक्ष्य सर्व आकस्मिकं विस्मयमीयुरुच्चैः ॥
तस्या यतीशजितभर्तृयतित्वजातवैधव्यसंभवशुचा भुवमस्पृशन्त्याः ।
अन्तर्धिमेक्ष्य मुदितोऽजनि मण्डनोऽपि तत्साधु वीक्ष्य मुमुदे यतिशेखरश्च ॥
मण्डनमिश्रोऽप्यथ विधिपूर्वं दत्वा वित्तं यागे सर्वम् ।
आत्मारोपितशोचिष्केशो भेजे शङ्करमस्तमिताशः ॥
७४
संन्यासगृह्य विधिना सकलानि कर्माण्यह्नाय शङ्करगुरुर्विदुषोऽस्य कुर्वन् ।
कर्णे जग किमपि तच्चमसीति वाक्यं कर्णेजपं निखिल संसृतिदुःखहानेः ॥
संन्यासपूर्व विधिवद्धिभिक्षे पश्चादुपादिशदथाऽऽत्मतत्त्वम् ।
आचार्यवर्यः श्रुतिमस्तकस्थं तदादिवाक्यं पुनराबभाषे ॥
त्वं नासि देहो घटवद्ध्यनात्मा रूपादिमच्चादिह जातिमत्त्रात् ।
ममेति भेदमथनादभेदसंप्रत्ययं विद्धि विपर्ययोत्थम् ॥
७६
७७
लोप्यो हि लोप्यव्यतिरिक्तलोपको दृष्टो घटादिः खलु तादृशी तनुः ।
दृश्यत्वहेतोर्व्यतिरेकसाधने त्वत्तः शरीरं कथमात्मतागतिः ॥
नापीन्द्रियाणि खलु तानि च साधनानि
दात्रादिवत्कथममीषु तवाऽऽत्मभावः ।
चक्षुर्मदीयमिति भेदगतेरमीषां
स्वमादिभावविरहाच्च घटादिसाम्यम् ॥
यद्यात्मतैषां समुदायमा स्यादेकव्ययेनापि भवेन्न तद्धीः ।
प्रत्येकमात्मत्वमुदीर्यते चेन्नश्येच्छरीरं बहुनायकत्वात् ॥
७८
७९
८०
आत्मत्वमन्यतपगं यदि चक्षुरादेश्चक्षुर्विनाशसमये स्मरणं न हि स्यात् ।
एकाश्रयत्वनियमात्स्मरणानुभूत्यो दृष्टश्रुतार्थविषयावगतिश्च न स्यात् ॥
मनोsपि नाSSत्मा करणत्वहेतोर्मनो मदीयं गतमन्यतोऽभूत् ।
इति प्रतीतेर्व्यभिचारितायाः सुप्तौ च तश्चिन्मनसोर्विविक्तता ॥
अनयैव दिशा निराकृता न च बुद्धेरपि चाऽऽत्मता स्फुटम् ।
अपि भेदगतेरनन्वयात्करणादाविव बुद्धिमुज्झ भोः ॥
८२
८३