2026-04-30 05:37:42 by ambuda-bot
This page has not been fully proofread.
सर्गः १० ]
राजदेहप्रवेशादिकथनम
नरहरिकृपया ततः प्रशान्ते प्रबलतरे स हुताशने प्रविष्टः ।
निरगमदचलेन्द्रकन्दरान्ताद्विधुरिव वक्तबिलाद्विधुन्तुदस्य ॥
तदनु शमधनाधिपो विनेयैश्चिरविरहाद तिवर्धमानहादैः ।
सनक इव वृतः सनन्दनाधैर्जिगमिषुराजनि मण्डनस्य गेहम् ॥
तदनु सदनमेत्य पूर्वदृष्टं गगनपथाद्गलितक्रियाभिमानम् ।
विषयविषनिवृत्तवर्षमुचैरतनुत मण्डनमिश्रपक्षिपात्रम् ॥
तं समीक्ष्य नभश्च्युतं स च प्राञ्जलिः प्रणतपूर्वविग्रहः ।
अर्हणाभिरभिपूज्य तस्थिवानीक्षणैरनिमिषैः पिवन्निव ।
विश्वरूप बत सत्यवादी पपात पादाम्बुजयोर्यतीशः ।
गृहं शरीरं मम यच्च सर्व तवेति वादी मुदितो महात्मा ॥
प्रेयसा प्रथममर्चितं मुनिं प्राप्त विष्टरमुपस्थितं बुधैः ।
प्रश्रयावनतमूर्तिरवत्रीच्छारदाऽभिवदने विशारदा ।
ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनाम् ।
ब्रह्मणोऽधिपतिर्ब्रह्मन् भवान् साक्षात्सदाशिवः ॥
109
६०
६१
६२
६३
६४
६५
६६
६७
६८
सदसि मामविजित्य तथैव यन्मदनशासन कामकलावपि ।
तदवबोधकृते कृतिमाचरस्तदिह मर्त्यचरित्र विडम्बनम् ॥
त्वया यदावां विजितौ परात्मन्न तत्त्पापावहतीड्य सर्वथा ।
कृताभिभूतिर्न मयूखशालिना निशाकरादेरपकीर्तये खलु ॥
आदावात्म्यं धाम कामं प्रयास्याम्यर्हस्यच्छं मामनुज्ञातुमर्हन् ।
इत्यामन्त्र्यान्तर्हितां योगशक्त्या पश्यन् देवीं भाष्यकर्ता बभाषे ॥ ६९
जानामि त्वां देवि देवस्य धातुर्भार्यामिष्टामष्टमूर्तेः सगर्भ्याम् ।
वाचामाद्यां देवतां विश्वगुप्त्यै चिन्मात्राप्यात्तलक्ष्म्यादिरूपाम् ॥ ७०
तस्मादस्मत्कलितेष्वर्च्यमाना स्थानेषु त्वं शारदाख्या दिशन्ती ।
इष्टानर्थानृष्यशृङ्गादिकेषु क्षेत्रेष्वास्स्व प्राप्तसत्संनिधाना ॥
७१