Proofing

This page has not been fully proofread.

सर्गः ०१]
 
राजदेहप्रवेशादिकथनम्
 
तदिहाssस्यमपास्य विचेतुं निरवधिसंसृतिजलधैः सेतुम् ।
देशिकवरपदकमलं यामो न वृथाऽनेहसमत्र नयामः ॥
 
इति जलरुहपदवचनं सर्वे मनसि निधाय निराकृतगर्ने ।
कांश्चित्तत्र निवेश्य शरीरं रक्षितुमन्ये निरगुरुदारम् ॥
 
ते चिन्वन्तः शैलाच्छैलं विषयाद्विषयं भुवमनुवेलम् ।
प्रापुर्धिक्कृतविबुधनिवेशान् स्फीतानमरुकनृपतेर्देशान् ॥
मृत्वा पुनरप्युत्थितमेनं श्रुत्वा चैन्य दिलीपसमानम् ।
त्यक्त्वा विरहदैन्यममन्दं मत्त्राssचार्य धैर्यमविन्दन् ॥
ते च ज्ञात्वा गानविलोलं तरुणीसक्तं धरणीपालम् ।
विविशुः स्वीकृतगायकवेषा नगरं विदितसमस्त विशेषाः ॥
राज्ञे ज्ञापितविद्यातिशयास्ते तत्संग्रह विधृतातिशयाः ।
रमणीशतमध्यगमवनीन्द्रं ददृशुस्तारानृतमित्र चन्द्रम् ॥
वरचामरकर तरुणीकङ्कणरञ्जितमनोहरपश्चाद्भागम् ।
गीतिगतिज्ञो गीतश्रुतिसुखतानसमुल्लसदग्रिमदेशम् ॥
 
107
 
३६
 
३७
 
३८
 
३९
 
४०
 
४१
 
४२
 
धृतचामीकरदण्ड सितातपवारणरञ्जितरत्न किरीटम् ।
 
श्रितविग्रहमिव रतिपतिमाश्रितभुवमिव सान्तः पुरममरेशम् ॥
 
४३
 
रुचिरवेषाः समासाद्य तां संसदं नयनसंज्ञावितीर्णासना भूभुजा ।
समतिसृष्टास्ततः सुखरं मृच्र्च्छनापद विदस्ते जगुर्मोहयन्तः सभाम् ॥ ४४
भृङ्ग तव सङ्गतिमषास्य गिरिशृङ्गे तुङ्गविटपिनि सङ्गमजुषि त्वदङ्गे ।
स्वाङ्गरचिताः सकलुषान्तरङ्गाः संगमकृते भङ्गमुपयन्ति भृङ्गाः ॥ ४५
पञ्चशरसमयसञ्चयकृते प्राञ्चं मुञ्चन्निवेह सञ्चरसि प्रपञ्चम् ।
पञ्चजनमुख पञ्चमुखमप्यनञ्चंस्त्वं च गतिरिति किंच किल वञ्चितोऽसौ ॥
पर्वशशिमुख सर्वमपहाय पूर्व कुर्वदिह गर्वमनुसृत्य हृदपूर्वम् ।
न स्मरसि वस्त्वस्मदीयमिति कस्मात्संस्मर तदस्मर परमस्मदुक्त्या ॥