Proofing

This page has not been fully proofread.

106
 
श्रीमच्छङ्करदिग्विजये
 
सधनैर्निजला भवैभवात् सकुटुम्बैरुपशान्तिकान्तया ।
अतदन्यतयाऽखिलात्मकैरनुगृह्येय कदा नु धामभिः ॥
अविनयं विनयन्नसतां सतामतिरयं तिरयन् भवपावकम् ।
जयति यो यतियोगभृतां वरो जगति मे गतिमेष विधास्यति ॥
विगतमोहतमो इतिमाप्य यं विधुतमायतमा यतयोऽभवन् ।
अमृतदस्य तदस्य दृशः सृतवावतरेम तरेम शुगर्णवम् ॥
शुभाशुभ विभाजकस्फुरणदृष्टिमुष्टिघयः
क्षपान्धमतपान्यदुष्कथकदम्भकुक्षिंभरिः ।
कदा भवसि मे पुनः पुनरनाद्यविद्यातमः
प्रमृद्य गलितद्वयं पदमुदञ्च यन्नद्वयम् ॥
 
[ दशमः
 
२५
 
२६
 
२७
 
२८
 
मर्त्यानां निजपादपङ्कजजुषामाचार्य वाचा यया
रुन्धानो मतिकल्मषं त्वमिह किंकुर्वाणनिर्वाणया ।
द्राङ् नायास्यसि चेत्सुधीकृतपरीहासस्य दसस्य ते
दुःखान्तो न भवेदितीय स पुनर्जानीहि मीनीहि मा ॥ २९
 
३०
 
इति खेदमुपेषि मित्रजने प्रतिपन्नयतिक्षितिभृन्महिमा ।
शुचमर्थवता शमयन्वचसा निजगाद सरोरुहपाद इदम् ॥
पर्याप्तं नः क्लैब्यमुपेत्यात्र सखायः कृत्वोत्साहं भूमिमशेषामपिधानात् ।
अन्वेष्यामो भूविवराण्यप्यथ च द्यां यद्वद्देवं देवमनुष्यादिषु गूढम् ॥ ३१
अनिर्विण्णचेताः समास्थाय यत्नं सुदुष्प्रापमप्यर्यमाप्नोत्यवश्यम् ।
हुर्विजालैः सुरा हन्यमाना सुधामप्यवापुर्वनिर्विण्णचित्ताः ॥ ३२
यदप्यन्यगात्रप्रतिच्छन्न रूपो दुरन्वेषणः स्याद्गुरुर्नस्तथापि ।
स्वभानुदरस्थः शशीव प्रकाशैस्तदीयैर्गुणैरेव वेत्तुं स शक्यः ॥ ३३
इक्षुचापागमापेक्षया निर्गतो वर्ष्म तस्यां चितं कृष्णवर्त्मद्युतिः ।
विभ्रमाणां पदं सुभ्रुवां भूपतेः प्राप्तुमर्हत्यकामाग्रणी: संयमी ॥
नित्यतायाय्याश्रिते निर्वृताः प्राणिनो रोगशोकादिना नेक्षिताः ।
दस्युपीडोज्झिताः स्वस्वधर्मे रताः कालवर्षी खरा मेदिनी कामसूः ॥
 
३४