Proofing

This page has not been fully proofread.

सर्गः १० ]
 
राजदेहप्रवेशादिकथनम्
 
विजघनं संदष्टष्ठं प्रणुन्नपयोधरं
प्रसृतभणितं प्राप्नोत्साहं रणन्मणिमेखलम् ।
निभृतकरणं नृत्यगात्रं गते तर भावनं
 
प्रसृमरसुखं प्रादुर्भूतं किमप्यपदं गिराम् ॥
मनसिजकलातत्वाभिज्ञो मनोज्ञविचेष्टितः
 
सकलविषयव्यावृत्ताक्षः सदानुसृतोत्तमः ।
 
कृतक्कुचगुरूपास्त्याऽत्यन्तं सुनिर्वृतमानसो
 
निधुवनवरब्रह्मानन्दं निरर्गलमन्वभूत् ॥
 
105
 
१५
 
१६
 
१७
 
१८
 
पुरेव भोगान् बुभुजे महीभृत्स भोगिनीभिः सहितोऽप्यरंस्त ।
कन्दर्पशास्त्रानुगतः प्रवीणैर्वात्स्यायने तच्च निरक्षैताद्धा ॥
वात्स्यायनमोदितसूत्रजातं तदीयभाष्यं च निरीक्ष्य सम्यक् ।
स्वयं व्यधत्ताभिनवार्यगर्भ निबन्धमेकं नृपवेषधारी ॥
पारशर्यवनिभृति प्रविश्य राज्ञो वर्णैवं विहरति तद्विलासिनीभिः ।
दृष्ट्रा तत्समयमतीतमस्य शिष्या रक्षन्तो वपुरितरेतरं जजल्पुः ॥ १९
आचार्यैवधिरकारि मासमात्रं सोडतीतः पुनरपि पञ्चषाश्च घस्राः ।
अद्यापि स्वकरणमेत्य नः सनाथान् कर्तुं तन्मनसि न जायतेऽनुकम्पा ॥
किं कुर्मः क नु मृगयामहे क यामः को जानन्निह वसतीति नोऽभिदध्यात् ।
विज्ञातुं कथममर्म हे विचिन्त्याच्या सिन्धु क्षितितलमन्यगात्रगूढम् ॥
गुरुणा करुणानिधिना ह्यधुना यदि नो निहिता विहितास्त्यजिताः ।
जगति क गतिर्भजतां त्यजतां स्वपदं विपदन्तकरं तदिदम् ॥ २२
निःशेषेन्द्रियजाड्यहृन्नवनवाह्लादं मुहुस्तन्वती
नित्याश्लिष्टर जो यतीशचरणाम्भोजाश्रया श्रेयसी ।
निष्पत्यूह विजृम्भमाणवृजिनस्योद्वासना वासना
निःसीमा हृदयेन कल्पितपरीरम्भा चिरं भाव्यते ॥
 
फलितैरिव सत्यपादपैः परिणामैरिव योगसम्पदाम् ।
समयैरिव वैदिकश्रियां सशरीरैरिव तत्वनिर्णयः ॥
 
२३
 
२४