Proofing

This page has not been fully proofread.

104
 
श्रीमच्छङ्करदिग्विजये
 
वसु ददाति ययातिवदर्थिने वदति गीष्पतिवद्भिरमर्थवित ।
जयति फाल्गुनवत्प्रतिपार्थिवान् सकलमप्यवगच्छति शर्ववत् ॥
अनुसवनविस्तृत्वरैर पूर्वैर्वितरणपौरुषशौर्यधैर्यपूर्वैः ।
अनितरसुल भैर्गुणैर्विभाति क्षितिपतिरेष परः पुमानिवाद्यः ॥
अनृतुषु तरवः सुपुष्पिताग्रा बहुतरदुग्धदुधाश्च गोमहिष्यः ।
क्षितिरभिमतवृष्टिराज्य सस्या स्वविद्दितधर्मरताः प्रजाय सर्वाः ॥
कालस्तिष्यः सर्वदोषाकरोऽपि त्रेतामत्येत्यथ राज्ञः प्रभावात् ।
तस्मादस्मद्राजव प्रविश्य प्राप्तैश्वर्यः शास्ति कश्विद्धरित्रीम् ॥
तदयं गुणवारिधिर्यथा प्रतिपद्येत न पूर्वकं वपुः ।
करवाम तथेति निश्चयं कृतवन्तः सचिवाः परस्परम् ॥
अथ ते भुवि यस्य कस्यचिद्विगता सोर्वपुरस्ति देहिनः ।
अविचार्य तदाशु दह्यतामिति भृत्यान् रहसि न्ययोजयन् ॥
अथ राज्यधुरं धराधिपः परमाप्तेषु निवेश्य मन्त्रिषु ।
बुभुजे विषयान् विलासिनीसचिवोऽन्य क्षितिपालदुर्लभान् ॥
स्फटिक फळके ज्योत्स्नाशुभ्रे मनोज्ञशिरोगृहे
वरयुवतिभिर्दीव्यन्नक्षैर्दुरोदर के लिए ।
 
अधरदशनं बाह्वावा महोत्पलताडनं
 
रतिविनिमयं राजाऽकार्षीद्ग्लहं विजये मिथः ॥
अधरजसुधाश्लेषाद्रुच्यं सुगन्धि मुखानिल-
व्यतिकरवशात्कामं कान्ताकरात्तमतिप्रियम् ।
मधु मदकरं पायपायें मिया: समपायय-
कनकच कैरिन्दुच्छा या परिष्कृतमादरात् ॥
मधुमदकलं मन्दखिन्न मनोहरभाषणं
 
निभृतपुलकं सीत्काराढ्यं सरोरुहसौरभम् ।
दरमुकुलिताक्षीषलज्जं विसृत्वरमन्मथं
 
प्रचरदलकं कान्तावक्तुं निपीय कृती नृपः ॥
 
[ दशमः
 

 

 
१०
 
११
 
१२
 
१३
 
१४