2026-04-30 05:37:41 by ambuda-bot
This page has not been fully proofread.
सर्गः ९ ]
राजदेहप्रवेशादिकथनम्
अङ्गुष्ठमारभ्य समीरणं नयन् करन्ध्रमार्गाद्वहिरेत्य योगवित् ।
करन्धमार्गेण शनैः प्रविष्टवान् मृतस्य यावच्चरणायमेकधीः ॥
गात्रं गतासोर्वसुधाधिपस्य शनैः समास्पन्दत हृत्प्रदेशे ।
तथोदमीलन्नयनं क्रमेण तथोदतिष्ठत्स यथापुरैव ॥
103
१०५
१०६
आदौ तदङ्गमुदयन्मुखकान्ति पश्चान्नासान्तनिर्यदनिलं शनकैः परस्तात् ।
उन्मीलदंघ्रिचलनं तदनुवदक्षिन्याको चमुत्थितमुपात्तबलं क्रमेण ॥ १०७
तं प्राप्तजीवमुपलभ्य पतिं प्रभूतहर्षस्वनाः प्रमुदिताननपङ्कजास्ताः ।
नार्यो विरेजुररुणोदय संमफुल्लपद्मा: ससारसरवा इव वारिजिन्यः ॥ १०८
हर्ष तसामुदितमतुलं वीक्ष्य वामेक्षणाना-
मात्तप्राणं नृपमपि महामात्यमुख्याः प्रहृष्टाः ।
दध्मुः शङ्खान् पणत्रपटहान् दुन्दुभीचाभिजघ्नु-
स्तेषां घोषाः सपदि बधिरचक्रिरे द्यां भुवं च ॥ १०९
' इति श्रीमाधवीये तत्सार्वयोपायगोचरः ।
संक्षेपशङ्करजये सर्वोऽयं नवमोऽभवत् ॥ ९ ॥
आदितः श्लोकाः 1029
अथ दशमः सर्गः ॥ १० ॥
राजदेहप्रवेशादिकथनम् ॥
अथ पुरोहितमन्त्रिपुरःसरैर्नरपतिः कृतशान्तिककर्मभिः ।
विहितमाङ्गलिकः स यथोचितं नगरमा स्थितभद्रगजो ययौ ॥
समधिगम्य पुरं परिसान्त्वितप्रियजनः सचिवैः सह सम्मतैः ।
भुवमपाल दाहतशासनो नृपतिभिर्दिवमिन्द्र इवाधिराट् ॥
इति नृपत्वमुपेत्य वसुन्धरामवति संयमिभूभृति मन्त्रिणः ।
तमधिकृत्य परं कृतसंशया इति जजल्पुरनल्पधियो मिथः ॥
मृतिमुपेत्य यथा पुनरुत्थितः प्रकृतिभाग्यवशेन तथा लयम् ।
नरपति: प्रतिभाति न पूर्ववत्समुदिता खिल दिव्यगुणोदयः ॥
४