2026-04-30 05:37:40 by ambuda-bot
This page has not been fully proofread.
102
श्रीमच्छङ्करदिग्विजये
कृतधीस्त्वनाश्रममवर्णमजात्यवबोधमात्रमजमे करसम् ।
[ नवमः
९४
९५
९६
९७
स्वतयाऽवगत्य न भजेन्निवसन्निगमस्य मूर्ध्नि विधिकिङ्करताम् ॥ ९३
कलशादि मृत्प्रभवमस्ति यथा मृदमन्तरा न जगदेवमिदम् ।
परमात्मजन्यमपि तेन विना समयत्रयेऽपि न समस्ति खलु ॥
कथमज्यते जगदशेषमिदं कलयन्मृषेति हृदि कर्मफलैः ।
न फलाय हि स्वपनकालकृतं सुकृतादि जात्वनृतबुद्धिहतम् ॥
तदयं करोतु हयमेधशतान्यमितानि विवहननान्यथवा ।
परमार्थविन्न सुकृतैर्दुरितैरपि लिप्यतेऽस्तमितकर्तृतया ॥
अवधी तिशीर्षमददाच्च यतीन वृकमण्डलाय कुपितः शतशः ।
चत लोमहानिरपि तेन कृता न शतक्रतोरिति हि बहूचगीः ॥
बहुदक्षिणैरयजत ऋतुभिर्विबुधानतर्पयदसंख्यधनैः ।
जनकस्तथाऽप्यभयमाप परं न तु देहयोगमिति काण्ववचः ॥
न विहीयतेऽहिरिपुवदुरितैर्न च वर्धते जनकवत्सुकृतैः ।
न स तापमेयर दुरितं किमहं न साध्वकरवं त्विति च ॥
तदनङ्गशास्त्रपरिशीलनमप्यमुनैव सौम्य करणेन कृतम् ।
न हि दोषकृत्तदपि शिष्टसरण्यवनार्थमन्यवपुरेत्य यते ॥
इति सत्कथाः स कथनीययशा भवभीतिभञ्जनकरी: कययन् ।
सुदुरासदं चरणचारिजनैर्गिरिशृङ्गमेत्य पुनरेव जगौ ॥
९८
९९
- १००
१०१
अधिसानु पश्यत विभाति गुहा पुरतःशिला समतला विपुला ।
सरसी च तत्परिसरेऽच्छजला फलभारनम्रतरुरम्यतटा ॥। १०२
परिपाल्यतामिह वसद्भिरिदं वपुरप्रमादमनवद्यगुणाः ।
अहमा स्थितस्तदुचितं करणं कलयामि यावदसमेषुकलाम् ॥
१०३
इति शिष्यवर्गमनुशास्य यतिप्रवरो विसृष्टकरणोऽधिगुहम् ।
महिपस्य व गुरुयोगवलोऽविशदातिवाहिकशरीरयुतः ॥ १०४