Proofing

This page has not been fully proofread.

सर्गः ९ ]
 
श्रीमदाचार्य सरस्वती संवादः
 
भद्रासनाध्यासिनि योगिवर्ये भद्राण्यनिद्राण्यभवन्प्रजानाम् ।
वर्ष कालेषु बलाहकोऽपि सस्यानि चाशास्यफलान्यभूवन् ॥
विज्ञाय विज्ञाः सचिवा नृपस्य काये प्रविष्टं कमपीह दिव्यम् ।
समादिशत्राजसरोरुहाक्षीः सर्वात्मना तस्य वशीक्रियायै ॥
संगीतलास्याभिनयादि केषु संसक्तचेता ललितेषु तासाम् ।
स एष विस्मृत्य पुनः समाधिं सर्वात्मना प्राकृतवद्धभूव ॥
गोरक्ष एषोऽथ गुरोः प्रवृत्ति विज्ञाय रक्षन् बहुधाऽस्य देहम् ।
निशान्तकान्तानटनोपदेष्टा नितान्तमस्याभवदन्तरङ्गः ॥
तत्रैकदा तच्चनिबोधनेन निवृत्तरागं निजदेशिकं सः ।
योगानुपूर्वी सुपदिश्य निन्ये यथापुरं प्राक्तनमेव देहम् ॥
इन्तेदृशोऽयं विषयानुरागः किंचोर्ध्वरेतोव्रतखण्डनेन ।
किं नोदयेत्किल्बिषमुल्बणं ते कृत्यं भवानेव कृतीं विवेक्तम् ॥
व्रतमस्मदीयमतुलं क महत् क च कामशास्त्रमतिगर्ह्यमिदम् ।
तदपीष्यते भगवतैव यदि ह्यनवस्थितं जगदिदैव भवेत् ॥
अधिमेदिनि प्रथयितुं शिथिलं घृतकङ्कणस्य यतिधर्ममिमम् ।
भवतः किमस्त्यविदितं तदपि प्रणयान्मयोदितमिदं भगवन् ॥
 
101
 
८१
 
८२
 
८३
 
८४
 
८५
 
८६
 
८७
 
८८
 
स निशम्य पद्मचरणस्य गिरं गिरति स्म गीष्पतिसमप्रतिभः ।
अविगीतमेव भवता फणितं शृणु सौम्य वच्मि परमार्थमिदम् ॥ ८९
असङ्गिनो न प्रभवन्ति कामा हरेरिवाभीरवधूस खस्य ।
वज्रोलियोगप्रतिभूः स एष वत्सावकीर्णित्वविपर्ययो नः ॥
 
सङ्कल्प एवाखिलकाममूलं स एव मे नास्ति समस्य विष्णोः ।
तन्मृलहानौ भवपाशनाशः कर्तुः सदा स्याद्भवदोषदृष्टेः ॥
 
अविचार्य यस्तु वपुराद्यहमित्यभिमन्यते जडमतिः सुदृढम् ।
तमबुद्धतत्वमधिकृत्य विधिप्रतिषेधशास्त्रमखिलं सफलम् ॥
 
९०
 
९१
 
९२