2026-04-30 05:37:39 by ambuda-bot
This page has not been fully proofread.
100
श्रीमच्छङ्करदिग्विजये
[ नवमः
७१.
७२
॥ ७३
७४
कलाः कियन्त्यो वद पुष्पधन्वनः किमात्मिका: किंच पदं समाश्रिताः ।
पूर्वे च पक्षे कथमन्यथा स्थितिः कथं युवत्यां कथमेव पूरुषे ॥
नेतीरितः किंचिदुवाच शङ्करो विचिन्तयन्नत्र चिरं विचक्षणः ।
तासामनुक्तौ भविताऽल्पवेदिता भवेत्तदुक्तौ मम धर्मसंक्षयः ॥ ७०
इति संविचिन्त्य स हृदाऽऽशु तदाऽनवबुद्धपुष्पशरशास्त्र इव ।
विदितागमोऽपि सुरिरक्षयिषुर्नियमं जगाद जगति व्रतिनाम् ॥
इह मासमात्रमवधिः क्रियतामनुमन्यते हि दिवसस्य गणः ।
तदनन्तरं सुदति हास्यसि भोः कुसुमास्त्रशास्त्रनिपुणत्वमपि ॥
उररीकृते सति तथेति तयाऽऽक्रमते स्म योगिमृगराड् गगनम् ।
श्रुतविग्रहः श्रुतविनेययुतो दधदभ्रचारमथ योगदृशा
स ददर्श कुत्रचिदमर्त्यमिव त्रिदिवच्युतं विगतसत्त्वमपि ।
मनुजेश्वरं परिवृतं मलपत्प्रमदाभिरार्तिमदमात्यजनम् ॥
अयो निशाखेटवशादटव्यां मूले तरोर्मोहवशात्परासुम् ।
तं वीक्ष्य मार्गेऽमरुकं नृपालं सनन्दनं माह स संयमीन्द्रः ॥
सौन्दर्य सौभाग्यनिकेतसीमाः परःशता यस्य पयोरुहाक्ष्यः ।
सं एव राजाsपरुकाभिधानः शेते गतासुः श्रमतो धरण्याम् ॥
प्रविश्य कार्य तमिमं परासोर्नृपस्य राज्येऽस्य सुतं निवेश्य ।
योगानुभावात्पुनरप्युपैतुमुत्कण्ठते मानसमस्मदीयम् 11
अन्यादृशानामदसीयनाना कुशेशयाक्षी किलकिञ्चितानाम् ।
सर्वज्ञता निर्वहणाय सोऽहं साक्षित्वमप्याश्रयितुं समीहे ॥
इत्युचिवांसं यतितल्लजं तं सनन्दनः प्राह ससान्त्वमेनम् ।
सर्वज्ञ नैवाविदितं तवास्ति तथाऽपि भक्तिर्मुखरं तनोति ॥
मत्स्येन्द्रनामा हि पुरा महात्मा गोरक्षमादिश्य निजाङ्गगुप्त्यै ।
नृपस्य कस्यापि तनुं परासोः प्रविश्य तत्पत्तनमाससाद ॥
७५
७६
७७
७८
७९