Proofing

This page has not been fully proofread.

श्रीमदाचार्य सरस्वतीसंवादः
 
सर्गः ९]
यदपि त्वमस्य जगतः प्रभवो ननु सर्वविच्च परमः पुरुषः ।
तदपि त्वयैव सह वादकृते हृदयं बिभर्ति मम तुत्कलिकाम् ॥
इति याजूकसहधर्मचरीकथितं वचोऽर्थवद्गह्येपदम् ।
मधुरं निशम्य मुदितः सुतरां प्रतिवक्तुमैहत यतिप्रवरः ॥
यदवादि कलहोत्सुकतां प्रतिपद्यते हृदयमित्यबले ।
तदसांप्रतं न हि महायशसो महिलाजनेन कथयन्ति कथाम् ॥
स्वतं प्रभेत्तमिह यो यतते स वधूजनोऽस्तु यदि वाऽस्त्वितरः ।
यतितव्यमेव खलु तस्य जये निजपक्षरक्षणपरैर्भगवन् !!
 
99
 
99
 
५७
 
५८
 
५९
 
६०
 
६२
 
६३
 
अत एव गार्ग्यभिधया कलहं सह याज्ञवल्क्यमुनिराडकरोत् ।
जनकस्तथा सुलभयाऽवलया किममी भवन्ति न यशोनिधयः ॥ ६१
इति युक्तिमद्गदितमाकलयन्मुदितान्तरः श्रुतिसरिज्जलधिः ।
स तथा विवादमधिदेवतया वचसामियेष विदुषां सदसि ॥
अथ सा कथा प्रववृते स्म तयोरुभयोः परस्परजयोत्सुकयोः ।
मतिचातुरीरचितशब्दझरी श्रुतिविस्मयीकृत विचक्षणयोः ॥
अनयोर्विचित्रपदयुक्तिभरैर्निशमय्य संकथनमाकलितम् ।
न फणीशमप्यतुलयन पपीं न गुरुं कविं किमपरं जगति ॥
न दिवा न निश्यपि च वादकथा विरराम नैयमिककालमृते ।
इति जल्पतोः सममनल्पधियोर्दिवसाथ सप्त दश चात्यगमन् ॥
अथ शारदाऽकृत वाक्प्रमुखेष्वखिलेषु शास्त्र निचयेषु परम् ।
तमजय्यमात्मनि विचिन्त्य मुनिं पुनरप्यचिन्तयदिदं तरसा ॥
अतिबाल्य एव कृतसंन्यसनो नियमैः परैरविधुरश्च सदा ।
मदनागमेष्वकृतबुद्धिरसौ तदनेन संप्रति जयेयमहम् ॥
 
इति संप्रधार्य पुनरप्यमुना कथने प्रसंगमथ संगतितः ।
यमिनं सदस्यमुपपृच्छदसौ कुसुमास्त्रशास्त्रहृदयं विदुषी ॥
 
६४.
 
६५
 
६६
 
६७
 
६८