2026-04-30 05:37:39 by ambuda-bot
This page has not been fully proofread.
98
श्रीमच्छङ्करदिग्विजये
यतिपुण्डरीक तव वेद्मि मनो ननु पूर्वमेव विदितं च मया ।
इह भावि तापसमुखादखिलं तदुदीर्यते शृणु ससभ्यञ्जनः ॥
मयि जातु मातुरुपकण्ठजुषि प्रभया तडित्प्रतिभटोच्चजटः ।
सितभूतिरूषित समस्ततनुः श्रमणोऽभ्ययादपरसूर्य इव ॥
परिगृह्य पाद्यमुखयाऽर्हणया रचिताञ्जलिर्नमितपूर्वतनुः 1
जननी तदाssत्तवरिवस्यममुं मुनिमन्वयुङ्क्त मम भाव्यखिलम् ॥
[ नवमः
४५
४६
४७
५०
५१
भगवन्न वेद्मि दुहितुमम भाव्यखिलं च वेत्ति तपसा हि भवान् ।
प्रणते जने हि सुधियः कथयन्त्यपि गोप्यमार्यसदृशाः कृपया ॥ ४८
कियदायुरवाप्स्यति सुतान् कति वा दयितं कथंविधमुपैष्यति च ।
अथ च क्रतूनपि करिष्यति मे दुहिता प्रभूतधनधान्यवती ॥ ४९
इति पृष्टभाविचरितः प्रसुवा क्षणमात्रमीलितविलोचनकः ।
सकलं क्रमेण कथयन्निदमप्यपरं जगाद सुरहस्यमपि ॥
निगमाध्वनि प्रबलबाह्यमतैर मितैरधिक्षिति खिले द्रुहिणः ।
पुनरुद्दिधीर्षुरवतीर्य खलु प्रतिभाति मण्डन कवीन्द्रमिषात् ॥
तमवाप्य रुद्रमित्र साऽद्रिसुता दुहिता तवाच्युतमिवाब्धिसुता ।
अनुरूपमाहृतसमस्तमखा ससुता भविष्यति चिरं मुदिता ॥
अथ नष्टौपनिषदं प्रबलैः कुमतैः कृतान्तमिह साधयितुम् ।
ननु मानुषं वपुरुपेत्य शिवः समलंकरिष्यति धरां स्वपदैः ॥
सह तेन वादमुपगम्य चिरं दुहितुः पतिस्तु यतिवेषजुषा ।
विजितस्तमेव शरणं जगतां शरणं गमिष्यति विसृष्टगृहः ॥
इतिगामुदीर्य स मुनिः प्रययौ सकलं यथातथमभूच्च मम ।
भवदीयशिष्यपदमस्य कथं वितथं भविष्यति मुनेर्वचसि ॥
अपि तु त्वयाऽद्य न समग्रजितः प्रथिताग्रणीर्मम पतिर्यदहम् ।
वपुरर्धमस्य न जिता मतिमन्नपि मां विजित्य कुरु शिष्य मिमम् ॥ ५६
५२
५३
५४
५५