Proofing

This page has not been fully proofread.

सर्गः ९ ]
 
श्रीमदाचार्य सरस्वती संवादः
 
शान्तिवाक्सुकृताङ्कुरं दमसमुल्लासोल सत्पल्लवं
वैराग्यद्रुमकोरकं सहनता वल्लीप्रसूनोत्करम् ।
ऐका सुमनो मरन्दविसृतिं श्रद्धासमुद्यत्फलं
विन्देयं सुगुरोगिरां परिचयं पुण्यैरगण्यैरहम् ॥
त्रिदिवौकसामपि पुमर्थ करीमिह संसरज्जन विमुक्तिकरीम् ।
करुणोर्मिलां तव कटाक्षझरीमवगाहतेऽत्रं खलु धन्यतमः ॥
 
केचिच्चञ्चललोचनाकुचतटी चेलाञ्चलोचालन-
 
97
 
३७
 
३८
 
३९
 
स्पर्शद्राक् परिरंभ संभ्रमकलालीलासु लोलाशयाः ।
सत्येते कृतिनस्तु निस्तुलयशः कोंशादय: श्रीगुरु-
व्याहारक्षरितामृताब्धिलहरीदोलासु खेलन्त्यमी ॥
चिन्तासन्तानतन्तु ग्रथितनव भवत्सूक्तिमुक्ताफलौधै-
रुद्यद्वैशच सद्यः परिहृततिमिरैहरिणो हारिणोऽमी ।
सन्तः सन्तोषयन्तो यतिवर किमतो मण्डनं पण्डितानां
विद्या हृद्या स्वयं तान् शतमखमुखरान् वारयन्ती वृणीते ॥ ४०
सन्तः सन्तोषपोषं दधतु तव कृतान्नायशो भैर्यशोभिः
सौरालोकैरुलका इव निखिलखला मोहमाहो वहन्तु ।
धीरश्रीशङ्करार्य प्रणतिपरिणतिभ्रश्यदन्तर्दुरन्त-
 
'ध्वान्ताः सन्तो वयं तु प्रचुरतर निजानन्दसिन्धौ निमग्नाः ॥ ४१
चिन्तासन्तानशाखी पदसरसिजयोर्वन्दनं नन्दनं ते
सङ्कल्पः कल्पवल्ली मनसि गुणनुतेर्वर्णना स्वर्णदीयम् ।
स्वर्गे दृग्गोचरस्त्वत्पद भजनमतः संविचार्येदमार्या
 
मन्यन्ते स्वर्गमन्यं तृणवद तिलघु शङ्करार्य त्वदीयाः ॥
तदहं विसृज्य सुतदारगृहं द्रविणानि कर्म च गृहे विहितम् ।
शरणं वृणोमि भगवच्चरणावनुशाधि किङ्करममुं कृपया ॥
इति सूनृतोक्तिभिरुदीर्णगुणः सुधियाऽऽत्मवाननुजिघुक्षुरसौ ।
समुदैक्षतास्य सहधर्मचरीं विदिताशया मुनिमवोचत सा ॥
 
४२
 
४३
 
४४