Proofing

This page has not been fully proofread.

98
 
96
 
श्रीमच्छङ्करदिग्विजये
 
अविद्याराक्षस्या गिलितमखिलेशं परगुरो
पिचण्डं भिवास्या: सरभसममुष्मादुदहरः ।
हृतां पश्यन् रक्षोयुवतिभिरमुष्य प्रियतमां
हनूमांलो केयस्तव तु कियती स्यान्महितता ॥
 
जगदार्तिहननवगम्य पुरा महिमानमीदृशमचिन्त्यमहम् ।
तव यत्पुरोऽब्रवमसाम्प्रतमप्यखिलं क्षमस्व करुणाजलधे ॥
 
कपिलाक्षपादकणभुक्प्रमुखा अपि मोहमीयुरमितप्रतिभाः ।
श्रुतिभावनिर्णयविधावितरः प्रभवेत्कथं परशिवांशमृते ॥
 
समेतैरेतैः किं कपिलकण भुग्गौतमवच-
स्तमस्तोमैश्वेतो मलिनिमसमारम्भणचणैः ।
सुधाधारोद्वारमचुरभगवत्पादवदन-
प्ररोहदयाहारामृत किरणपुञ्जे विजयिनि ॥
 
भिन्दानैर्देवमेतैरभिनवयवनैः सद्रवीभञ्जनोकै-
 
र्व्याप्ता सर्वेयमुर्वी क जगति भजतां कैव मुक्तिप्रसक्तिः ।
यद्वा सद्वादिराजा विजितकलिमला विष्णुतत्त्वानुरक्ता
 
[ नवमः
 
२८
 
२९
 
३०
 
३१
 
उज्जृम्भन्ते समन्ताद्दिशि दिशि कृतिनः किं तया चिन्तया मे ॥ ३२
 
कथमल्पबुद्धिविवृतिमचयमबलोरगक्षतिहताः श्रुतयः ।
 
न यदि त्वदुत्यमृतसेकधृता विहरेयुरात्मविधृतानुशयाः ॥
 
भवदुक्तमुक्त्यमृतभानुकरा न चरेयुरार्य यदि कः शमयेत् ।
अतितीव्रदुःसहभवोष्णकरप्रचुरातपप्रभवतापमिमम् ॥
बत कर्मयन्त्रमधिरुह्य तपः श्रुत गेहदारसुतभृत्यधनैः ।
अतिरूढमानभरितः पतितो भवतोद्धृतोऽस्मि भवकूपविलात् ॥
अहमचरं बहुतपोऽसुकरं ननु पूर्वजन्मसु न चेदधुना ।
जगदीश्वरेण करुणानिधिना भवता कथा मम कथं घटते ॥
 
३३
 
३४
 
३५
 
३६