2026-04-30 05:37:38 by ambuda-bot
This page has not been fully proofread.
सर्गः ९ ]
श्रीमदाचार्य सरस्वती संवादः
न ममैव वेद हृदयं यमिराडपि तु श्रुतेः सकलशास्त्रततेः ।
यदभूद्भविष्यति भवत्तदपि ह्ययमेव वेद न तथा वितरः ॥
गुरुणा चिदेकर सतत्परता निरणायि हि श्रुतिशिरोवचसाम् ।
कथमेकसूत्रमपि तद्विमतं कथयाम्यहं तदुपसादितधीः ॥
अलमाकलय्य विशयं सुयशः शृणु मे रहस्यमिममेव परम् ।
स्वमवेहि संसृतिनिमग्न जनोत्तरणे गृहीतवपुषं पुरुषम् ॥
आधे सत्वमुनिः सतां वितरति ज्ञानं द्वितीये युगे
दत्त द्वापरनामके तु सुमतिर्व्यासः कलौ शङ्करः ।
इत्येवं स्फुटमीरतोऽस्य महिमा शैवे पुराणे यत-
स्तस्य त्वं सुपते मते त्ववतरेः संसारवार्थि तरेः ॥
इति बोधितद्विजवरोऽन्तरधान्मनसोपगुह्य यमिनामृषभम् ।
सच यायजूक परिषत्प्रमुखः प्रणिपत्य शङ्करमवोचदिदम् ॥
विदितोऽस्ति संप्रति भवाञ्जगतः प्रकृतिर्निरस्तसमतातिशयः ।
अवबोध मात्रवपुरण्यबुधोद्धरणाय केवलमुपात्ततनुः
देकमुदितं पदं यतिवर त्रयीमस्त कै-
स्तदस्य परिपालकस्त्वमसि तत्त्वमस्यायुधः ।
परं गलितसौगतप्रलपितान्धकूपान्तरे
पतत्कथमिवान्यथा प्रलयमद्य नापत्स्यते ॥
प्रबुद्धोऽहं स्वप्नादिति कृतमतिः स्वप्नमपरं
यथा मूढः स्वप्ने कलयति तथा मोहवशगाः ।
विमुक्ति मन्यन्ते कतिचिदिह लोकान्तरगति
हसन्त्येतान् दासास्तव गलितमायाः परगुरोः ॥
मुहुधिग्विभेदिप्रलपितविमुक्ति यदुदयेऽप्य-
सार: संसारो विरमति न कर्तृत्वमुखरः ।
भृशं विद्वन्मोदे स्थिरतमविमुक्ति त्वदुदितां
भवातीता येयं निरवधिचिदानन्दलहरी ॥
95
१९
२०
२१
२२
२३
२४
२५
२६
२७