Proofing

This page has not been fully proofread.

94
 
श्रीमच्छङ्करदिग्विजये
 
वचनं तमेतमिति धर्मचयं विदधाति बोधजनिहेतुतया ।
तदपेक्षयैव स च मोक्षपरो निरधारयन्न परथेति वयम् ॥
श्रुतयः क्रियार्थकतया सफला अतदर्थकानि तु वचांसि वृथा ।
इति सूत्रयन्ननु कथं मुनिराडपि सिद्धवस्तुपरतां मनुते ॥
श्रुतिरा शिरद्वयपरोऽपि परंपरयाऽऽत्मबोधफलकर्मणि च ।
प्रसरत्कटाक्ष इति कार्यपरत्वमसूचि तत्वकरणस्थ गिराम् ॥
ननु सच्चिदात्मपरताऽभिमता यदि कृत्स्नवेदनिचयस्य मुनेः ।
फलदातृतामपुरुषस्य वदन् स कथं निराह परमेशमपि ॥
ननु कर्तृपूर्वकमिदं जगदित्यनुमानमागमवचांसि विना ।
परमेश्वरं प्रथयति श्रुतयस्त्वनुवादमात्रमिति काणभुजाः ॥
न कथंचिदौपनिषदं पुरुषं मनुते बृहन्तमिति वेदवचः ।
कथयत्यवेदविदगोचरतां गमयेत् कथं तमनुमानमिदम् ॥
इति भावमात्मनि निधाय मुनिः स निराकरोन्निशितयुक्ति शतैः ।
अनुमानमीश्वरपरं जगतः प्रभवं लयं फलमपीश्वरतः ॥
तदिहास्मदुक्तविधया निषदा न विरुद्धमण्वपि मुनेर्वचसि ।
इति गूढभावमनवेक्ष्य बुधास्तमनीशवाद्ययमिति ब्रुवते ॥
किमु तावतैव स निरीश्वरवाद्यभवत् परात्मविदुषां प्रवरः ।
न निशाटनाहिततमः कचिप्यदहनि प्रभां मलिनयेत्तरणेः ॥
इति जैमिनीयवचसां हृदयं कथितं निशम्य यतिकेसरिणा ।
मनसा ननन्द कविराणितरां सह शारदाश्च सदसस्पतयः ॥
 
[ नवमः
 

 
१०
 
११
 
१२
 
१३
 
१४
 
१५
 
१६
 
विदिताशयोऽपि परिवर्तिपनाविशयः स जैमिनिमवाप हृदा ।
अवगन्तुमस्य वचसाऽपि पुनः स च संस्मृतः सविधमाप कवेः ॥ १७
अवदच्च पिवति स भाष्यकृति प्रजहाहि संशयमिमं सुमते ।
यदवोचदेष मम सूत्रततेर्हृदयं तदेव मम नापरथा ॥
 
१८