This page has not been fully proofread.

॥ न्यासः ॥
 
अस्य श्रीललितादिव्यसहस्रनामस्तोत्रमहामन्त्रस्य, वशिन्यादि-
चाग्देवता ऋपयः । अनुष्टुप् छन्दः । श्रीललितामहात्रिपुरसुन्दरी
देवता । श्रीमद्वाग्भवकूटेति योजम् । मध्यकूटेति शक्तिः । शक्तिकूटेति
कीलकम् । मूलप्रकृतिरिति ध्यानम् । श्रीललितामहात्रिपुरसुन्दरी-
प्रसादसिद्धिद्वारा चिन्तितसकलफलावाप्यर्थे जपे विनियोगः ॥
( मूलमन्त्रेण अङ्गन्यासं करन्यासं च कुर्यात् ॥ )
 
॥ ध्यानम् ॥
 
सिन्दूरारुण विग्रहां त्रिनयनां माणिक्यमौलिस्कुर-
चारानायकशेखरां स्मितमुरीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचपकं रक्तोत्पलं विभ्रती
सौम्यां स्नघटस्थरक्तचरणां ध्यायेत् परामम्बिकाम् ॥
अरुणो करुणातरङ्गिताक्षीं
 
तपाशाङ्कुशपुष्पबाणचापाम् ।
 
अणिमादिभिरावृतां मयूखे-
रहमित्येव विभावयेद्भवानीम् ॥
 
ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमामां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।
सर्वालङ्कारयुक्तां सततमभयदां भक्तनमां भवानी
श्रीविद्यां शान्तमूर्ति सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥