This page has not been fully proofread.

S.
 
श्रीललितासहस्रनामस्तोत्रपूर्वभागः
 
तस्मान्नामसहस्रं मे कीर्तयध्वं सदादरात् ।
 
हयग्रीव उवाच -
 
इति श्रीललितेशानी शारित देवान् सहानुगान् ॥ ४७ ॥
 
तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः ।
शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम् ॥ ४८ ॥
 
पठन्ति भक्त्या सततं ललितापरितुष्टये ।
तरमावश्यं भक्तेन कीर्तनीयमिदं मुने ॥ ४९ ॥
 
आवश्यकत्वे हेतुस्ते मया प्रोक्तो मुनीश्वर ।
इदानीं नामसाहस्रं वक्ष्यामि श्रद्धया शृणु ॥ ५० ॥
 
॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे
श्रीललितारहस्यनामसाहस्रस्तोत्रपूर्यभागः सम्पूर्णः ॥