This page has not been fully proofread.

श्रीललितासहस्रनामस्तोत्रपूर्वभाग:
 
दिव्यौधा मानवौघात्र सिद्धौघाश्च समागताः ।
तत्र श्रीललिता देवी सर्वेपां दर्शनं ददौ ॥ ३७॥
तेषु दृष्ट्वोपविष्टपु स्वेश्ये स्थाने यथाक्रमम् ।
तत्र श्रीललितादेवीकटाक्षाक्षेपनोदिताः ॥ ३८ ॥
उत्थाय पशिनीमुख्या वद्धाञ्जलिपुटास्तदा ।
अस्तुवन्नामसाहस्रैः स्वकृतैललिताम्बिकाम् ॥ ३९ ॥
श्रुत्वा स्तवं प्रसन्नाभूखलिता परमेश्वरी ।
सर्वे ते विस्मयं जग्मुर्ये सत्र सदसि स्थिताः ॥ ४० ॥
 
ततः प्रोवाच ललिता सदस्यान् देवतागणान् ।
ममाशयैव वाग्देव्यञ्चक्रुः स्तोत्रमनुत्तमम् ॥ ४१ ॥
अङ्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः ।
तत् पठध्वं सदा यूयं स्तोत्रं मप्रीतिवृद्धये ॥ ४२ ॥
प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम् ।
इदं नामसहस्रं मे यो भक्तः पठते सकृत् ॥ ४३ ॥
 
समे प्रियतमो ज्ञेयस्तस्मै कामान् ददाम्यहम् ।
श्रीचक्रे मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ ४४ ॥
 
पश्चान्नामसहस्रं मे कोर्तयेन्मम तुष्टये ।
मामर्चयतु वा मा या विद्यां जपतु वान वा ॥ ४५ ॥
कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा ।
 
मयीत्या सकलान कामोल्लभते नात्र संशयः ॥ ४६ ॥