This page has not been fully proofread.

श्रीललिता सहस्रनामस्तोत्र पूर्व भागः
पुराणां श्रीपुरमिव शक्तीनां ललिता यथा ।
श्रीविद्योपासकानां च यथा देवो वर. शिवः ॥ १८ ॥
 
तथा नामसहस्रेषु वरमेतत् प्रकीर्तितम् ।
यथास्य पठनाद्देवी प्रीयते ललिताम्विका ॥ १९ ॥
 
अन्यनामसहस्रस्य पाठान्न प्रीयते तथा ।
श्रीमातुः प्रीतये तरमादनिशं कीर्तयेदिदम् ॥ २० ॥
 
बिल्वपत्रैश्चक्रराजे योऽर्चयेहलिता म्बिकाम् ।
पर्वा तुलसीपत्रैरेभिर्नामसहस्रकैः ॥ २१ ॥
 
सद्यः प्रसादं कुरुते तत्र सिंहासनेश्वरी ।
चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ २२ ॥
 
जपान्ते कीर्तयेन्नित्यमिदं नामसहस्रकम् ।
जपपूजाद्यशक्तोऽपि पठेन्न मसहस्रकम् ॥ २३ ॥
सागार्चने सागजपे यत् फलं तद्वाप्नुयात् ।
उपासने स्तुतीरन्याः पठेदभ्युदयो हि सः ॥ २४ ॥
 
इदं नामसहस्रं तु कीर्तयेन्नित्यकर्मवत् ।
चक्रराजार्चनं देव्या जपो नाम्ना च कीर्तनम् ॥ २५ ॥
 
भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः ।
भक्तस्त्यावश्यकमिद नामसाहस्रकीर्तनम् ॥ २६ ॥
 
1. श्रीमत्सिंहासनेश्वरी इत्यपि पाठः ।