This page has not been fully proofread.

॥ श्रीः ॥
 
॥ श्रीललितासहस्रनामस्तोत्रम् ॥
पूर्वभागः
 
अगरस्य उवाच -
 
अश्वानन महाबुद्धे सर्वशास्त्रविशारद ।
कथितं ललितादेव्याचरितं परमाद्भुतम् ॥ १ ॥
पूर्व प्रादुर्भवो मातुस्ततः पट्टाभिपेचनम् ।
भण्डासुरवधञ्चैव विस्तरेण त्वयोदितः ॥ २ ॥
वर्णित श्रीपुरं चापि महाविभवविस्तरम् ।
श्रीमत्पञ्चदशाक्षर्या महिमा वर्णितस्तथा ॥ ३ ॥
पोढा न्यासादयो न्यामा न्यासखण्डे समीरिवाः ।
अन्तर्यागनमश्चैव वहिर्यागक्रमस्तथा ॥ ४ ॥
महायागक्रमञ्चैव पूजासण्डे प्रकीर्तितः ।
पुरश्चरणसण्डे तु जपलक्षणमीरितम् ॥ ५ ॥
 
होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः ।
चकराजस्य विद्यायाः श्रीदेव्या देशिकात्मनोः ॥ ६ ॥
रहस्यखण्डे तादात्म्यं परस्परमुदीरितम् ।
स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ॥ ७॥
मन्त्रिणीदण्डिनीदेव्याः प्रोक्ते नामसहस्रके ।
न तु श्रीललितादेव्याः प्रोकं नामसहस्रकम् ॥ ८॥