This page has not been fully proofread.

फउश्रुतिः
 
चतुराश्रमनिटेच कीर्तनीयमिदं सदा ।
स्वधर्मसमनुष्ठानवैफल्यपरिपूर्तये ॥ ६३ ॥
कलो पापैकबहुले धर्मानुष्ठानवर्जिते ।
 
नामानुकीर्तनं गुफ्त्या नृणां नान्यत् परायणम् ॥ ६४ ॥
लौकिकाद्वचनान्मुर विष्णुनामानुफीर्तनम् ।
 
विष्णुनामसहस्राय शिवनामैकमुत्तमम ॥ ६५ ॥
 
शिवनामसहस्राच्च देव्या नामैकमुत्तमम् ।
देवीनामसहस्राणि फोटिशः सन्ति कुम्भज ॥ ६६ ॥
तेषु मुख्यं दशविध नामसाहस्रमुच्यते ।
रहस्पनामसाहस्रमिदं शस्तं दशस्वपि ।
तस्मात् संकीर्तयेन्नित्यं कलिदोषनिवृत्तये ॥ ६७ ॥
मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ।
विष्णुनामरताः केचिच्छिवनामपराः परे ।
न कश्चिदपि लोकेषु ललितानामतत्परः ॥ ६८ ॥
येनान्यदेवतानाम कीर्तितं जन्मकोटिपु ।
तस्यैन भवति श्रद्धा श्रीदेवीनामचीर्तने ॥ ६९ ॥
चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ।
नामसाहस्रपाठश्च तथा चरमजन्मनि ॥ ७० ॥
यथैव विरला टोके श्रीविद्याचारवेदिनः ।
तथैव विरला गुह्यनामसाहस्रपाठकः ॥ ७१ ॥
मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ।
रहस्यनामपाठ्य नाल्पस्य तपसः फलम् ॥ ७२ ॥
 
155