This page has not been fully proofread.

154
 
श्रीललिता सहस्रनामस्तोत्रे
 
प्रतिमास पौर्णमास्यामेभिर्नामसहस्रकै ।
रात्रौ यश्चक्रराजस्थामर्चयेत् परदेवताम् ॥ ५२ ॥
स एव ललितारूपस्तद्रूपा ललिता स्वयम् ।
न तयोवियते भेदो भेदकृत् पापकद्भवेत् ॥ ५३ ॥
महानवम्या यो भक्त श्रीदेवीं चक्रमध्यगाम् ।
अर्चयेन्नामसाहस्रैरतस्य मुक्ति करे स्थिता ॥ ५४ ॥
यस्तु नामसहस्रेण शुक्रनारे समर्चयेत् ।
चक्राराजे महादेवीं तस्य पुण्यफल शृणु ॥ ५५ ॥
सर्वान् कामानवाप्येह सर्वसौभाग्यसयुत ।
पुत्रपौत्रादिसयुक्तो भुक्त्वा भोगान् यथेप्सितान् ॥ ५६ ॥
अन्ते श्रीललितादेव्या सायुज्यमतिदुर्लभम् ।
प्रार्थनीय शिवाद्यैश्च प्राप्नोत्येव न सशय ॥ ५७ ॥
य सहस्र नाह्मणानामे भिर्नामसहस्रके ।
समर्च्य भोजयेद्भवत्या पायसापूपपड्से ॥ ५८ ॥
तस्मै प्रीणाति ललिता स्वसाम्राज्य प्रयच्छति ।
न तस्य दुर्लभ वस्तु निषु लोकेषु विद्यते ॥ ५९ ॥
निष्काम कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् ।
ब्रह्मज्ञानमवाप्नोति येन मुन्येत बन्धनात् ॥ ६० ॥
धनार्थी धनमाप्नोति यशोऽर्थी घाप्नुयाद्यश ।
विद्यार्थी चाप्नुयाद्विद्या नामसाइस्रकीर्तनात् ॥ ६१ ॥
नानेन सदश स्तोन भोगमोक्षप्रद मुने ।
पोर्तनीयमिद तरमाद्भोगमोक्षार्थिभिनर ॥ ६२ ॥