This page has not been fully proofread.

152
 
श्रीललितासहस्रनामस्तोत्रे
 
यस्त्विदं नामसाहस्रं सकृत् पठति भक्तिमान् ।
तरय ये शत्रवस्तेषां निहन्ता शरगेश्वरः ॥ ३१ ॥
यो वाभिचारं कुरुते नामसाहस्रपाठके ।
 
निवर्त्य तक्रियां हन्यात्तं वै प्रत्यङ्गिराः स्वयम् ॥ ३२ ॥
ये क्रूरदृष्ट्या वीक्षन्ते नामसाहस्रपाठकम् ।
तानन्धान कुरुते क्षिप्रं स्वयं मार्ताण्डभैरवः ॥ ३३ ॥
धनं यो हरते चोरैर्नामसाहस्रजापिनः ।
 
यत्र कुत्र स्थितं वापि क्षेत्रपालो निहन्ति तम् ॥ ३४ ॥
विद्यासु कुरुते वादं यो विद्वान्नामजापिना ।
तस्य चावस्तम्भनं सद्य श्रोति नकुलेश्वरी ॥ ३५ ॥
यो राजा कुरुते वैरं नामसाहस्रजापिना ।
चतुरङ्गवलं तस्य दण्डिनी संहरेत् स्वयम् ॥ ३६॥
यः पठेन्नामसाहस्रं पण्मासं भक्तिसंयुतः ।
लक्ष्मीश्चाञ्चल्यरहिता सदा तिष्ठति तद्गृहे ॥ ३७ ॥
मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ।
 
भारती तथ्य जिह्वामे रङ्गे नृत्यति नित्यशः ॥ ३८ ॥
यस्त्वेकवारं पठति पक्षमात्रमतन्द्रितः ।
मुह्यन्ति कामवागा मृगाक्ष्यस्तस्य वीक्षणात् ॥ ३९ ॥
यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः ।
तद्द्दष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्विषैः ॥ ४० ॥
यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ।
अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन ॥ ४१ ॥