This page has not been fully proofread.

फलश्रुतिः
 
सर्वे रोगाः प्रणश्यन्ति दीर्घमायुश्च विन्दति ।
अयमायुष्करो नाम प्रयोगः कल्पनोदितः ॥ २१ ॥
व्वरात शिरसि मृष्ट्ठा पठेन्नामसहस्रकम् ।
 
तत्क्षणात् प्रशमं याति शिरस्तोदो जरोऽपि च ॥ २२ ॥
सर्वव्याधितिवृत्त्यर्थं वा भस्म जपेदिदम् ।
तद्भरमधारणादेव नश्यन्ति व्याघयः क्षणात् ॥ २३ ॥
जलं सम्मन्त्र्य घुम्भस्थं नामसाहस्रतो मुने ।
अभिषिञ्चेहप्रस्तान् ग्रहा नश्यन्ति तत्क्षणात् ॥ २४ ॥
सुधासागरमन्यस्थां ध्यात्वा श्रीललिताम्बिकाम् ।
यः पठेन्नामसाहस्रं विपं तस्य विनश्यति ॥ २५ ॥
वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम ।
नवनीतं दद्यात्तु पुत्रलाभो भवेदध्रुवम् ॥ २६ ॥
देव्याः पाशेन सम्बद्धामाकृष्टामड्कुशेन च ।
ध्यालाभीष्टां स्त्रियं रात्री पन्नामसहस्रकम् ।
आयाति समीपं स यद्यप्यन्तःपुरं गता ॥ २७ ॥
राजाकर्षणकामध्ये द्राजावसथदिड्मुसः ।
त्रिरात्रं यः पठेदेतडीदेवीध्याननत्परः ॥ २८ ॥
स राजा पारवश्येन तुरङ्गं वा मतङ्गजन् ।
आरुह्यायाति निकटं दासनत् मणिपत्य च ।
तरमै राज्यं च कोशं च ददात्येव वशं गतः ॥ २९ ॥
रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ।
तन्मुसालोक्मात्रेण मुह्येोकत्रयं भुने ॥ ३० ॥
 
1. नोदितःउक्त इत्यर्थ इति भाग्ये दृश्यते ।
 
151