This page has not been fully proofread.

150
 
श्रीललितासहस्रनामस्तोत्रे
 
दुर्भिक्षे य: प्रतिदिनं कोटिब्राह्मणभोजनम् ।
श्रद्धया परया कुर्यात् सहस्रपरिवत्सरान् ॥ ११ ॥
तत्पुण्यं कोटिगुणितं लभेत् पुण्यमनुत्तमम् ।
रहस्यनामसाहस्रे नाम्नोऽप्येकस्य कीर्तनात् ॥ १२ ॥
रहस्यनामसाहस्रे नामैकमपि यः पठेत् ।
तस्य पापानि नश्यन्ति महान्त्यपि न संशयः १३ ॥
नित्यकर्माननुष्ठानान्निषिद्धकरणादपि
यत्पापं जायते पुंसां तत्सर्वं नश्यति द्रुतम् ॥ १४ ॥ ॥
बहुनात्र किमुक्तेन शृणु त्वं कुम्भसम्भव ।
अत्रेकनाम्नो या शक्ति: पातकानां निवर्तने ।
तनिवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश ॥ १५ ॥
यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्सति ।
स हि शीतनिवृत्त्यर्थ हिमशैलं निपेवते ॥ १६ ॥
भक्तो यः फीर्तयेन्नित्यमिदं नामसहस्रकम् ।
तस्मै श्रीललितादेवी श्रीताभीष्टं प्रयच्छति ॥ १७ ॥
अकोर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ।
नित्यं सङ्कीर्तनाशक्तः कोर्तयेत् पुण्यवासरे ॥ १८ ॥
 
}
 
सङ्क्रान्तौ विपुत्रे चैव स्वजन्मत्रितयेऽयते ।
नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे ।
कीर्तयेनामसाहस्रं पौर्णमास्यां विशेषतः ॥ १९ ॥
पौर्णमास्यां चन्द्रविम्वे ध्यात्व। श्रीललिताम्बिकाम् ।
पोपचारैः सम्पूज्य पठेन्नामसहस्रकम् ॥ २० ॥