This page has been fully proofread once and needs a second look.

॥ श्रीमान्ञ् ज्येष्ठराजो विजयते ॥

उपोद्धात:
 

 
(महभट्टहलायुधनिबद्धं कविरहस्यमधिकृत्य.)
 

 
भुवि विजयन्ते किल प्रतिफलित सकलभुवनतलोदन्तजालविमल-

मनीषासयमहामणिमुकुराः सत्कविप्रवरा येषामसंकोचे वाचां प्रपञ्चे

चिरं निमज्जदखिलं जगद् भूयो भूयः परमानन्दमयचिदम्भोधाविव चि-

त्रीयति । तेषां च प्रथमपङिङ्किनिवेशनीयः सुमहनीयमतिबलायुधः खलु

विद्वद्वीरः श्रीमान् महभट्टहलायुधः । येन खल्वभिधानरत्नमालानि-

बन्धनेन नानार्थनामशब्दानां श्रीपैङ्गलच्छन्दोविवृतिविरचनया च

विविधच्छन्दसां प्रकाशनं विधाय गीर्वाणकाव्यवाणी विरचितमहोप-

कारभारेव विराजतेतरां भूरिविदां विदुषां समाजेषु ।
 

 
अयं हि भट्टभास्करस्यान्तेवासी भट्हलायुधो भुवि शालि-

वाहनशाकीये सप्तमसमाशतके बभूवेति कविचरित्रादिनिबन्धपर्या-

लोचनयाऽवगम्यते । अनेनैव महाशयकविचक्रवर्तिना कविरहस्यना-

मा संचारिधातु
संकलनात्मकोऽनेक वृत्तावनिबद्धवाश्चारुनिबन्धो निरमायि ।

अस्य च पण्डितसंमतत्वं महापण्डितभट्टोजिदीक्षितैः स्वविरचित 'सिद्धा-

न्तकौमुद्या' मेतदीयपद्यसमुद्धारादेव सुविश्रुतमिति नास्ति तद्विषये

बहुलेखनाया सव्यपेक्षा । अत्र हि कृष्णराज शर्माणमन्ध्रदेशीयं तदानीं-

तनं नृपतिविशेषमधिकृत्य व्याभिचारिणां घाधातूनां तत्तदाकृतिप्रकाशकान्

प्रयोगांस्तदीयगुणगणवर्णनव्याजेन यथायथं निवबन्ध निबन्धनिव-
ब-
न्धनपटुः प्रकृतकवीन्द्रचन्द्रः । अयं च निबन्धो धातुविशेषान्

विविदिषूणां छात्राणां भूयस उपकाराय भविष्यतीति वयमेतं स्वविर-
<error>स्वविर-
चित्त</error><fix>स्वविरचित </fix>प्रस्फोटसमेतं प्रकाशयितुं प्रावर्तेमहि ।
 

 
अत्र च स्थूळालाक्षरविलिखितसंचारिधातुप्रयोगान् मूलश्लोकानुप
रि
सांलिख्य तत्तत्प्रयोगेषु प्रस्फोटाङ्कसंवादिनोऽङ्कान् संस्थाप्य <flag>रिपाया
 
1917
 
॥ तेजस्विनावधीतमस्तु ॥
 
Bh
</flandarkar Oriental
Research Institute
 
g>