This page has been fully proofread once and needs a second look.

४०
 
कविरहस्यम्.
 
यो रोडति[^१] मृषाऽध्मातस्तं रौडति[^२] निरीक्ष्य सः ॥
प्रतिषेध[^३]ति यः शत्रून् कार्यं तस्याशु सिध्य[^४]ति ॥ २७१ ॥
नय[^५]न्ते तद्गुणाः सर्वे यस्तान्न[^६]यति दिङ्मुखम् ॥
श्रिया मृड[^७]ति मृण्डा[^८]ति सरस्वत्या च सम्पदा ॥ २७२ ॥
 
(द्रुतविलम्बितम्.)
 
इति समाप्तमवाप्तगुणोदयं
कविरहस्यमिदं रसिकप्रियम् ॥
सदभिधाननिधानहलायुध-
द्विजवरस्य कृतिः सुकृतात्मनः ॥ २७३ ॥
॥ इति श्रीभट्टहलायुधकृतौ कविरहस्यं संपूर्णम् ॥
 
[^१] रोड् (ऋ ) उन्मादे (१-प.) ।
[^२] रोड् ( ऋ) अनादरे (१-प.) ।
[^३] षिध् (अ) [सिघ्] गत्याम् (१-प.) । उपसर्गस्थनिमित्तेन षत्वम् ।
[^४] षिध् (उ) [ सिध्] संराद्धौ (४-प. ) ।
[^५] णी (ञ्) प्रापणे ( १ - उ. ) ।
[^६] "
[^७] मृड् (अ) सुखने (६-प.) ।
[^८] मृड् (अ) क्षोदे मुखे च (९ -प. ) । ष्टुत्वेन णकारः ।
 
(अनुष्टुप्.)
 
अज्ञात्वा मतिसामर्थ्यमदृष्ट्वा पिशुनाञ् जनान् ॥
मया कविरहस्येऽयं प्रस्फोटो विस्फुटः कृतः ॥ १॥
 
(वसन्ततिलका.)
 
आदौ निबन्धगतधातुमथानुबन्धमर्थं ततो गणपदे च विधेर्विशेषम् ॥
एवं हलायुधकृतौ क्रमतो रहस्यप्रस्फोटमेतमकरोत् किल वामनाख्यः ॥२॥
 
॥ इति कविरहस्यप्रस्फोटः समाप्तः ॥