This page has not been fully proofread.

४०
 

 
कविरहस्यम्.
 

 
यो रोडति' मृषाऽध्मातस्तं रोरौडति निरीक्ष्य सः ॥

प्रतिषेधति यः शत्रून् कार्यं तस्याशु सिध्यति ॥ २७१ ॥

नयन्ते द्गुणाः सर्वे यस्तान्नँयति दिङ्मुखम् ॥

श्रिया मृडति मृगाण्डाति सरस्वत्या च सम्पदा ॥ २७२ ॥

(द्रुतविलम्बितम्.)
 

 
इति समाप्तमवाप्तगुणोदयं

कविरहस्यमिदं रसिकप्रियम् ॥

सदभिधाननिधानहलायुध-

द्विजवरस्य कृतिः सुकृतात्मनः ॥ २७३ ॥

॥ इति श्रीमहभट्टहलायुधकृतौ कविरहस्यं संपूर्णम् ॥
 

 
१ रोड् (ऋ ) उन्मादे (१-प.) ।
२ रोड् ( ऋ) अनादरे (१-प.) ।

षिध् (अ) [सिघ्] गत्याम् (१-प.) । उपसर्गस्थनिमित्तेन षत्वम् ।

षिध् (उ) [ सिध्] संराद्धीधौ (४-प. ) ।
५ णी (ञ)
ञ्) प्रापणे ( १ - उ. ) ।
"
७ मृड् (अ) सुखने (६-प.) ।

८ मृड् (अ)
क्षोदे मुखे च (९ -प. ) । ष्टुत्वेन णकारः ।
 
[ नी ] प्रापणे
८ मृड (अ)
 

 
(अनुष्टुप्.)
 

 
अज्ञात्वा मतिसामर्थ्यमदृष्ट्वा पिशुनाञ् जनान् ॥

मया कविरहस्येऽयं प्रस्फोटो विस्फुटः कृतः ॥ १॥

 
(वसन्ततिलका.)
 

 
आदौ निबन्धगतधातुमथानुबन्धमर्थं ततो गणपदे च विधेर्विशेषम् ॥

एवं हलायुधकृतौ क्रमतो रहस्यप्रस्फोटमेतमकरोत् किल वामनाख्यः
 
॥२॥
 

 
॥ इति कविरहस्यप्रस्फोटः समाप्तः ॥
 
ASTITUTE
 
POONA
 
FOUNDED
1917
 
॥ तंजस्वि नावधीतु ॥
 
Bhandarkar Oriental
Research Institute