This page has been fully proofread once and needs a second look.

३९
 
सप्रस्फोटम्.
 
मानं खण्ड[^१]यते स्त्रीणां खण्ड[^२]ते द्विषतां शिरः ॥ २६४ ॥
प्लोषति[^३] द्विषतः सर्वान् प्लुष्य[^४]त्यपि च तत्पुरः ॥
अर्थापय[^५]ति शास्त्राणि नार्थमर्थय[^६]तेऽन्यतः ॥ २६५ ॥
विभाज[^७]यति यो द्रव्यं सभाज[^८]यति सज्जनान् ॥
लुभत्य[^९]र्थे न कामे च धर्मे लुभ्य[^१०]ति यः सदा ॥ २६६ ॥
वेदान् गद[^११]ति यः स्पष्टं न यो गद[^१२]यति क्वचित् ॥
अश्ना[^१३]ति शुचि माहात्म्यमश्नु[^१४]ते च परंतपः ॥ २६७ ॥
दक्ष[^१५]ते सर्वकार्येषु दक्ष[^१६]ते च कुलं द्विषाम् ॥
शिवं यक्षय[^१७]ते भक्त्या विभूत्या यश्च यक्ष[^१८]ति ॥ २६८ ॥
गाह[^१९]ते शास्त्रमत्यर्थं गा[^२०]धते नार्थमन्यतः ॥
यस्मै गुध्ना[^२१]ति तद्दुर्गं तत्क्षणादेव गुध्य[^२२]ति ॥ २६९ ॥
एज[^२३]ते राजचिन्हैर्य एजत्ये[^२४]तद्भयाज्जगत् ॥
इन्धे[^२५] युद्धेषु यत्तेज एध[^२६]ते यः श्रियाऽधिकम् ॥ २७० ॥
 
[^१] खड् (इ) [खण्ड्] भेदने (१०-उ.) ।
[^२] खड् (इ) मन्थे (१ -आ. ) ।
[^३] फ्लुष् (अ) स्नेहनसेवनपूरणेषु (१-प.)
[^४] फ्लुष् (अ) दाहे (४–प.) ।
[^५] अर्थ-नामधातुः ।
[^६] अर्थ ( ० ) उपयाच्ञायाम् (१० - उ.) ।
[^७] भाज (०) पृथक्कर्मणि ( १० - उ.) ।
[^८] सभाज (०) प्रीतिसेवनयोः (१० - उ.) ।
[^९] लुभ् ( अ )विमोहन (६-प.) ।
[^१०] लुभ् (अ.) गाद्ध्यै (४-प.)
[^११] गद् (अ)व्यक्तायां वाचि (१-प.)।
[^१२] गद (०) देवशद्बे (१०-उ.) ।
[^१३] अश् (अ) भोजने (९–प.) ।
[^१४] अश् (उ) व्याप्तौ संघाते च (५-आ.) ।
[^१५] दक्ष् (अ) वृद्धौ शीघ्रार्थे च (१ - आ.) ।
[^१६] दक्ष् (अ , ष् , म्) गतिहिंसनयोः (१-आ.)।
[^१७] यक्ष् (अ) पूजायाम् (१०-उ.) ।
[^१८] यक्ष (०) नामधातुरयम् । क्यङ्ङभावे रूपम् ।
[^१९] गाह् (ऊ) विलोडने (१ -आ.) ।
[^२०] गाध् (ऋ) प्रतिष्ठालिप्सयोर्ग्रन्थे च (१-आ. ) ।
[^२१] गुध् (अ) रोषे (९-प.)
[^२२] गुध् ( अ ) परिवेष्टने ( ४-प. )
[^२३] एजू (ऋ) दीप्तो (१-आ.)
[^२४] " करप ने (१-प.)
[^२५] इन्ध् (ञि इ.) दीप्तं (७-आ.) ।
[^२६] एध् (अ) वृद्धौ (१ - प्रा.)