This page has been fully proofread once and needs a second look.

३७
 
सप्रस्फोटम्.
 
मण्ड[^१]यन्ति गुणाः सर्वं यो गुणानेव मण्ड[^२]ति ॥
भूषणं भूषयत्य[^३]न्यं स तु भूष[^४]ति भूषणम् ॥ २११ ॥
उन्मूल[^५]यति यः शक्तमुन्मूल[^६]ति तमांसि च ॥
वायुं च पीतय[^७]त्यात्मी यः पायत्य[^८]रिमण्डलम् ॥ २५२ ॥
निबर्ह[^९]यति बुद्ध्याऽरीन् स्वयमर्हो निबर्ह[^१०]ते ॥
इहार्ह[^११]यति यः पूजां स्वर्गेऽपीन्द्रत्व[^१२]मर्हति ॥ २१३ ॥
भक्त्या नम[^१३]ति यो देवान् नम[^१४]स्यति गुरून् द्विजान् ॥
रुण[^१५]द्धि रोदसी कीर्त्या सत्सङ्गमनु[^१६]रुध्यते ॥ २१४ ॥
दिवा निद्रा[^१७]यते नासौ न निद्रा[^१८]यति सन्ध्ययोः ॥
न गर्हते[^१९] परद्रव्यं न च गर्ह[^२०]यते परम् ॥ २१९ ॥
तूर्यते[^२१] न क्वचित् कार्ये त्व[^२२]रते धर्म एव यः ॥
ध्व[^२३]नन्ति यगुणान् मर्त्या ध्वनय[^२४]न्ति च खेचराः ॥ २१६ ॥
तर्जयत्य[^२५]हितं नान्यं भूमौ तर्जति[^२६] सज्जनम् ॥
न दुनो[^२७]ति परं वाचा दुर्जनोक्त्या न दूय[^२८]ते ॥ २१७ ॥
 
[^१] मड् (इ) [मण्ड्] भूषायाम् (१०-उ.) ।
[^२] मड् ( इ ) ,, ( १ -प.)
[^३] भूष ,, (अ) अलंकरणे ( १०-उ.) ।
[^४] " ( १ -प. )
[^५] मूल् (ॲ) रोहणे ( १० - उ. ) ।
[^६] मूल् ( अ ) प्रतिष्ठायाम् ( १ - प. ) ।
[^७] पीतेति नामधातुः ।
[^८] पै ( ० ) शोषणे (१-प. ) ।
[^९] बर्ह् (अ) हिंसायाम् ( १० - उ. ) ।
[^१०] बर्ह् ( अ ) प्राधान्ये (१ - आ.)
[^११] अर्ह् (अ) पूजायाम् ( १० - उ. ) ।
[^१२] अर्ह् (अ) " (१-प.) ।
[^१३] नम् ( अ ) प्रह्वत्वे शब्दे च (१-प.) ।
[^१४] नमस् इति नामधातुः क्यच् ।
[^१५] रुध् (इर् ) आवरणे (७-उ. ) ।
[^१६] रुध् (अ ) कामे ( ४ - आ. ) अयं नित्यमनुपूर्वः ।
[^१७] निद्रेति नामधातुः तत्करोतीति क्यङ् ।
[^१८] द्रै (०) स्वमे (१- प. ) ।
[^१९] गृह ( ऊ ) ग्रहणे ( १-आ.) ।
[^२०] गर्ह् (अ) विनिन्दने ( १० - उ. ) ।
[^२१] तुर् (ई ) गतित्वरणहिं-सनयोः (४-आ. ) ।
[^२२] त्वर् (ञि, आ, ष् , म् ) संभ्रमे ( १ - आ. ) ।
[^२३] ध्वन् (अ) शब्दार्थ: (१-प.)
[^२४] " ( १० - उ. ) /
[^२५] तर्ज् ( अ ) भर्त्सने (१०-उ. ) ।
[^२६] " (१-प.) ।
[^२७] दु ( टु ) उपतापे (५-प.) ।
[^२८] दू (ङ) परितापे ( ४ - आक.)