This page has not been fully proofread.

३७
 
सप्रस्फोटम्.
 
मण्डयन्ति गुणाः सर्वं यो गुणानेव मण्डेति ॥
भूषणं भूषयत्यन्यं स तु भूषति भूषणम् ॥ २११ ॥
उन्मूलेयति यः शक्तमुन्मूलीत तमांसि च ॥
वायुं च पीतयत्यात्मी यः पायत्यरिमण्डलम् ॥ २५२ ॥
निबर्हयति बुद्ध्याऽरीन् स्वयमर्हो निबर्हते ॥
इहार्हयति यः पूजां स्वर्गेऽपीन्द्रत्वमर्हति ॥ २१३ ॥
भक्त्या नमति यो देवान् नमस्यति गुरून् द्विजान् ॥
रुणद्धि रोदसी कीर्त्या सत्सङ्गमनुरुध्यते ॥ २१४ ॥
दिवा निद्रायते नासौ न निद्रायति सन्ध्ययोः ॥
न गर्हते" परद्रव्यं न च गर्हयते परम् ॥ २१९ ॥
तूर्यते न क्वचित् कार्ये त्वरते धर्म एव यः ॥
ध्वनन्ति यगुणान् मर्त्या ध्वनयन्ति च खेचराः ॥ २१६ ॥
तर्जयत्यहितं नान्यं भूमौ तर्जति सज्जनम् ॥
न दुनोति परं वाचा दुर्जनोक्त्या न दूयते ॥ २१७ ॥
 
[^१] मड् (इ) [मण्ड्] भूषायाम् (१०-उ.) ।
[^२] मड् ( इ ) ,, ( १ -प.)
[^] भूष ,, (अ) अलंकरणे ( १०-उ.) ।
[^] " ( १ -प. )
[^] मूल् (ॲ) रोहणे ( १० - उ. ) ।
[^] मूल् ( अ ) प्रतिष्ठायाम् ( १ - प. ) ।
[^] पीतेति नामधातुः ।
[^] पै ( ० ) शोषणे (१-प. ) ।
[^] बर्ह् (अ) हिंसायाम् ( १० - उ. ) ।
[^१०] बर्ह् ( अ ) प्राधान्ये (१ - आ.)
११[^११] अर्ह् (अ) पूजायाम् ( १० - उ. ) ।
१२[^१२] अर्ह् (अ) " (१-प.) ।
[^१३] नम् ( अ ) प्रह्वत्वे शब्दे च (१-प.) ।
[^१४] नमस् इति नामधातुः क्यच् ।
[^१५] रुध् (इर् ) आवरणे (७-उ. ) ।
[^१६] रुध् (अ ) कामे ( ४ - आ. ) अयं नित्यमनुपूर्वः ।
[^१७] निद्रेति नामधातुः तत्करोतीति क्यङ् ।
[^१८] द्रै (०) स्वमे (१- प. ) ।
[^१९] गृह ( ऊ ) ग्रहणे ( १-आ.) ।
[^२०] गर्ह् (अ) विनिन्दने ( १० - उ. ) ।
२१[^२१] तुर् (ई ) गतित्वरणहिं-सनयोः (४-आ. ) ।
२२[^२२] त्वर् (ञि, आ, ष् , म् ) संभ्रमे ( १ - आ. ) ।
[^२३] ध्वन् (अ) शब्दार्थ: (१-प.)
[^२४] " ( १० - उ. ) /
[^२५] तर्ज् ( अ ) भर्त्सने (१०-उ. ) ।
[^२६] " (१-प.) ।
[^२७] दु ( टु ) उपतापे (५-प.) ।
[^२८] दू (ङ) परितापे ( ४ - आक.)