This page has been fully proofread once and needs a second look.

कविरहस्यम्.
 
स्निह्य[^१]ति ज्ञातिवर्गेषु स्नेहयत्या[^२]र्यबन्धुषु ॥
रणे शूर[^३]यते यश्च शू[^४]र्यते द्विषतां गणे ॥ २४५ ॥
यः शील[^५]ति सदा धर्मं शीलयत्या[^६]त्मनो हितम् ॥
न च स्तम[^७]ति शोकेन न च दुःखेन ताम्य[^८]ति ॥ २४६ ॥
छिन[^९]त्ति नित्यमज्ञानं हृदयत्य[^१०]हितोदयम् ॥
सा[^११]ध्नोति धीः सदा यस्य सा[^१२]ध्यति श्रीश्च भूतले ॥ २४७ ॥
एष[^१३]ते यः सदा मार्गं गवेष[^१४]यति सुव्रतम् ॥
यत्किचिदप्य[^१५]धीतेऽसौ तदध्ये[^१६]ति तदक्षरम् ॥ २४८ ॥
आ[^१७]लोचते सदानीतिम[^१७]लोचयति सत्क्रियाः ॥
आ[^१९]लोकन्ते यमेणाक्ष्यो नालोकय[^२०]ति यश्च ताः ॥ २४९ ॥
यो न कु[^२१]त्सयते कुत्स्यान् न च कु[^२२]त्सति लिङ्गिनः ॥
न भर्त्स[^२३]ति विकर्मस्थान ने च भ[^२४]र्त्सयते मृतान् ॥ २१० ॥
 
[^१] ष्णिह् ( अ ) [ स्निह् ] प्रीतौ (४-प. ) ।
[^२] ष्णिह् ( अ ) [ स्निह् ] स्नेहने ( १० - उ. ) ।
[^३] शूर ( ० ) विक्रान्तौ (१०-आ.) 1
[^४] शूर् ( र्ई ) हिसस्तियोः (४-आ. ) 1
[^५] शील् ( अ.) समावौ (१-प.)
[^६] शील (०) उपधारणे ( १० - उ. ) ।
[^७] ष्टम् ( अ ) [ स्तम् ] वैकल्ये (१-प.) 1
[^८] तम् ( उ ) कांक्षायाम् (४-प. ) दीर्घः ।
[^९] च्छिद् ( इर् ) द्वैधीकरणे ( ७ - उ.) ।
[^१०] छद (०) अपवारणे (१०- उ.) ।
[^११] साध् ( अ ) संसिद्धौ (५-प.) ।
[^१२] साधू (अ) " (४-प.)
[^१३] एष् (ऋ) गतौ ( १-आ.) ।
[^१४] गवेष (०) मार्गणे (१०-उ.)
[^१५] इ ( ङ् ) अध्ययने (२-आ.) । अयं नित्यमधिपूर्वः
[^१६] इ ( क् ) स्मरणे ( २-प. ) अयमप्यधिपूर्वः ।
[^१७] लोच् ( ऋ ) दर्शने (१-आ.)
[^१८] लोच् " (१०-उ.)
[^१९] लोच् (ऋ) " (१-आ.)
[^२०] " (१०-उ.)
[^२१] कुत्स् (अ.) अवक्षेपणे (१०-आ.)
[^२२] " (१-प.)
[^२३] भर्त्स (अ) तर्जने (१-प.)
[^२४] भर्त्स् (अ) तर्जने (१०-आ.)