This page has been fully proofread once and needs a second look.

३५
 
सप्रस्फोटम्.
 
क्रप[^१]ते कृपणेष्वेव कृपयार्जितविक्रमः ॥
प्रचुरं प्रार्थितोप्यर्थं नासौ कृप[^२]यति प्रभुः ॥ २१६ ॥
अजस्त्रैरश्रुभिः शत्रुस्त्रीणां धौतमिवाधिकम् ॥
यद्यशः श्वेत[^३]ते दिक्षु श्विन्द[^४]ते च सुरालये ॥ २३७ ॥
कुशस्थलं पथय[^५]ति पथ[^६]यत्युत्तरापथम् ॥
यद्दण्डखण्डिताशेषप्रचण्डरिपुमण्डलम् ॥ २३८ ॥
द्यां चोच्छलेन मू[^७]र्च्छन्ति यद्गुणाः शशलाच्छने ॥
न स मू[^८]र्च्छति येनासौ दृष्टः सहृदयः प्रभुः ॥ २३९ ॥
ह्राद[^९]ते स्निग्धगम्भीरं यद्देशे वर्षुको धनः ॥
ह्ला[^१०]दते यस्य लोकेषु कृषीवलजनोऽप्यलम् ॥ २४० ॥
कृणा[^११]ति तृणवद्युद्धे शरजालेन यो रिपून् ।
कु[^१२]णन्ति विद्रुता यस्य दिङ्मुखेषु रिपुव्रजाः २४१ ॥
लक्ष्मीमा[^१३]लिङ्गति स्नेहाद्यः सदा पुरुषोत्तमः ॥
आलिङ्ग[^१४]यति रत्नानां जालेन मणिकुट्टिमम् ॥ २४२ ॥
यथा स्रुव[^१५]ति संग्रामे स्वयमेव जने नयम्ः ॥
सोमं सुनो[^१६]ति यज्ञेषु परलोकजिगीषया ॥ २४३ ॥
मनो माद[^१७]यते यस्य शास्त्राभ्यासरसायनात् ॥
सर्वलोकातिशायिन्या न विभूत्या स माद्य[^१८]ति ॥ २४४ ॥
 
[^१] क्रप् (अ ष् म् ) कृपायां गतौ च । (१-आ.) ।
[^२] कृप ( ० )दौर्बल्ये (१० - उ. ) ।
[^३] श्वित् (आ) वर्णे (१ - आ. ) ।
[^४] श्विट् ( इ ) ( श्विन्द् ) श्वैत्ये (१-आ.) ।
[^५] प्रथ (०) प्रख्याने (१०-उ. ) ।
[^६] पथ् ( इ ) [ पन्थ् ] गतौ (१-उ. ) ।
[^७] मूर्छ (आ) मोहनसमु-च्छ्राययोः(१-प.) ।
[^८] "
[^९] हाद् ( अ ) अव्यक्ते शब्दे ( १ -आ.) ।
[^१०] ह्लाद् (ई) सुखे (१ -आ.) ।
[^११] कृ (ञ्)हिंसायाम् ( ९ - उ.) ।
[^१२] कुण ( अ ) शब्दोपकरणयोः ( ६-प. ) ।
[^१३] लिग् ( इ ) [ लिङ्ग् ] गत्यर्थे (१-प.)।
[^१४] लिग् ( इ ) " ( १०-उ. ) ।
[^१५] षू (०) [ सू ] प्रेरणे (६-प. ) ।
[^१६] षु (ञ्) [ सु ] स्नपनपीडनस्नानसुरासन्धानेषु (५-उ.) । १७ मद् ( अ ) तृप्ति - योगे (१०-उ. ) ।
[^१८] मद् ( ई ) हर्षे (४-प. ) शमादित्वाद्दीर्घः।