This page has been fully proofread once and needs a second look.

३२
 
कविरहस्यम्.
 
योऽत्र लाभयते व्यूहं प्रतिपक्षक्षमाभुजाम् ॥
लभतेऽर्थं ततो भूमिहेमहस्तिहयादिकम् ॥ २१० ॥
श्रियो हृत्वाऽपि शत्रूणां न भैहर्षति यः श्रिया ॥
यथा प्रहृष्यति श्रुत्वा सत्कवीनां सुभाषितम् ॥ २११ ॥
धर्मसर्वस्वदाऽपि योहि दोलायते न च ॥
दोलयत्यरिवर्गस्य जीविताशां च यः सदा ॥ २१२ ॥
वाहते वाहिनी हन्तुं बाहुभ्यामाहवे बुधः ॥
वहते विहतारातेर्बहुरूपां च यः श्रियम् ॥ २१३ ॥
स्वेदेते किल सर्वोपि वपुष्मानूष्मणाऽन्वितः ॥
न तु स्विद्यति तस्याङ्गं व्यायामजितमेदसः ॥ २१४ ॥
अतिचित्राणि वस्त्राणि व्यूयन्ते यस्य कौतुकात् ॥
विज्ञानिका वैयेन्ते च व्ययन्ते पट्टिकादिकम् ॥ २१९ ॥
ऊर्जन्ति विविधाभिश्च विद्याभिर्यस्य वारणाः ॥
ऊर्जयन्ति च दानेन सन्मानेन पदातयः ॥ ३१६ ॥
आयच्छति रणे मौर्वीमसौ यावद् विधित्सया ॥
तावदार्च्छति शत्रूणां त्रस्यतां रणपद्धतिः ॥ २१७ ॥
 
१ लाभ (०) प्रेरणे (१०-उ.) ।
२ लभ् (डु, अ, ष्. ) प्राप्तौ (१-आ. ) ।
३ हृष् ( उ ) अलीके (१-प.) ।
४ हृष् (अ) तुष्टौ (४-प.) ।
५ दोलेति नामधातुरयम् कर्तुः- ( २६६५ ) क्यङ् ।
६ दुल् (अ) उत्क्षेपे (१०-उ.) ।
७ वाहू (ॠ ) प्रयत्ने (१-आ. ) ।
८ वह् (अ) प्रापणे (१-उ.) ।
९ ष्विद् (ञि-आ.) [ स्विद् ] स्ले-हनमोचनयोः (१ -आ.) । १० विद् (आ) [ स्विद् ] गात्रमक्षरणे (४-प. ) ।
११ ऊय् ( ई ) तन्तुसन्ताने (१-आ.) ।
१२ वे (ञ्) " (१-उ. ) ।
१३ व्ये (ञ्) संवरणे (१-उ.) ।
१४ ऊर्ज् (अ) बलमाणनयो (१ प.) अयमांकृत्या भादौ गण्यते ।
१५. ऊर्जु " (१०-उ.) ।
१६ यम् (अ ) उपरमे (१ प.) इषुगमियमामि (२४००)
ति छः उपसर्गेणाकर्षणार्थः ।
१७ ऋछ् (अ) गतीन्द्रियप्रलयमूर्तिभावेषु
(६-प.) ।