This page has been fully proofread once and needs a second look.

३२
 
कविरहस्यम्.
 
योऽत्र लाभ[^१]यते व्यूहं प्रतिपक्षक्षमाभुजाम् ॥
लभ[^२]तेऽर्थं ततो भूमिहेमहस्तिहयादिकम् ॥ २१० ॥
श्रियो हृत्वाऽपि शत्रूणां न प्र[^३]भैहर्षति यः श्रिया ॥
यथा प्रहृष्य[^४]ति श्रुत्वा सत्कवीनां सुभाषितम् ॥ २११ ॥
धर्मसर्वस्वदाऽपि योहि दोला[^५]यते न च ॥
दोलयत्य[^६]रिवर्गस्य जीविताशां च यः सदा ॥ २१२ ॥
वाह[^७]ते वाहिनी हन्तुं बाहुभ्यामाहवे बुधः ॥
वह[^८]ते विहतारातेर्बहुरूपां च यः श्रियम् ॥ २१३ ॥
स्वेदे[^९]ते किल सर्वोपि वपुष्मानूष्मणाऽन्वितः ॥
न तु स्विद्य[^१०]ति तस्याङ्गं व्यायामजितमेदसः ॥ २१४ ॥
अतिचित्राणि वस्त्राणि व्यू[^११]यन्ते यस्य कौतुकात् ॥
विज्ञानिका वय[^१२]वैयेन्ते च व्य[^१३]यन्ते पट्टिकादिकम् ॥ २१९ ॥
[^१४]र्जन्ति विविधाभिश्च विद्याभिर्यस्य वारणाः ॥
ऊर्ज[^१५]यन्ति च दानेन सन्मानेन पदातयः ॥ ३१६ ॥
आय[^१६]च्छति रणे मौर्वीमसौ यावद् विधित्सया ॥
तावदा[^१७]र्च्छति शत्रूणां त्रस्यतां रणपद्धतिः ॥ २१७ ॥
 
[^१] लाभ (०) प्रेरणे (१०-उ.) ।
[^२] लभ् (डु, अ, ष्. ) प्राप्तौ (१-आ. ) ।
[^] हृष् ( उ ) अलीके (१-प.) ।
[^] हृष् (अ) तुष्टौ (४-प.) ।
[^] दोलेति नामधातुरयम् कर्तुः- ( २६६५ ) क्यङ् ।
[^] दुल् (अ) उत्क्षेपे (१०-उ.) ।
[^] वाहू (ॠ ) प्रयत्ने (१-आ. ) ।
[^] वह् (अ) प्रापणे (१-उ.) ।
[^] ष्विद् (ञि-आ.) [ स्विद् ] स्ले-हनमोचनयोः (१ -आ.) ।
[^
१०] विद् (आ) [ स्विद् ] गात्रमक्षरणे (४-प. ) ।
[^११]११ ऊय् ( ई ) तन्तुसन्ताने (१-आ.) ।
[^१२]१२ वे (ञ्) " (१-उ. ) ।
[^१३] व्ये (ञ्) संवरणे (१-उ.) ।
[^१४] ऊर्ज् (अ) बलमाणनयो (१ प.) अयमांकृत्या भादौ गण्यते ।
[^१५]. ऊर्जु " (१०-उ.) ।
[^१६] यम् (अ ) उपरमे (१ प.) इषुगमियमामि (२४००)
ति छः उपसर्गेणाकर्षणार्थः ।
[^१७] ऋछ् (अ) गतीन्द्रियप्रलयमूर्तिभावेषु
(६-प.) ।