This page has not been fully proofread.

३२
 

 
कविरहस्यम्.
 

 
योऽत्र लाभयते व्यूहं प्रतिपक्षक्षमाभुजाम् ॥

लभतेऽर्थं ततो भूमिहेमहस्तिहयादिकम् ॥ २१० ॥

श्रियो हृत्वाऽपि शत्रूणां न भैहर्षति यः श्रिया ॥

यथा प्रहृष्यति श्रुत्वा सत्कवीनां सुभाषितम् ॥ २११ ॥

धर्मसर्वस्वंदानेऽपि योहि दोलॉलायते न च ॥

दोयत्यरिवर्गस्य जीविताशां च यः सदा ॥ २१२ ॥

वाहते वाहिनी हन्तुं बाहुभ्यामाहवे बुधः ॥

वहते विहताराते र्बहुरूपां च यः श्रियम् ॥ २१३ ॥

स्वेदेते किल सर्वोपि वपुष्मानूष्मणाऽन्वितः ॥

न तु स्विधंद्यति तस्याङ्गं व्यायामजितमेदसः ॥ २१४ ॥

अतिचित्राणि वस्त्राणि व्यूयन्ते यस्य कौतुकात् ॥

विज्ञानिका वैयेन्ते च व्ययन्ते पट्टिकादिकम् ॥ २१९ ॥

ऊर्जन्ति विविधाभिश्च विद्याभिर्यस्य वारणाः ॥

ऊर्जयन्ति च दानेन सन्मानेन पदातयः ॥ ३१६ ॥

आयच्छति रणे मौर्वीमसौ यावद् विधित्सया ॥

तावदार्च्छति शत्रूणां त्रस्यतां रणपद्धतिः ॥ २१७ ॥
 

 
१ लाभ (०) मेप्रेरणे (१०-उ.) ।
२ लभ् (डु, अ, ष्. ) प्राप्ती
तौ (१-आ. ) ।
३ हृष् ( उ ) अलीके (१-प.) ।
४ हृष् (अ)
तुष्टीटौ (४-प.) ।
५ दोलेति नामधातुरयम् कर्तुः- ( २६६५ ) क्यङ् ।
६ दु
ल् (अ) उत्क्षेपे (१०-उ.) ।
७ वाहू (ॠ ) प्रयलेत्ने (१-आ. ) ।

८ वह् (अ) प्रापणे (१-उ.) ।
ष्विद् (ञि-आ.) [ स्विद् ] स्ले-
हनमोचनयोः (१ -आ.) । १० विद् (आ) [ स्विद् ] गात्रमक्षरणे
(४-प. ) ।
११ ऊय् ( ई ) तन्तुसन्ताने (१-आ.) ।
१२ वे (ञ)
ञ्) " (१-उ. ) ।
१३ व्ये (ञ्) संवरणे (१-उ.) ।
१४ ऊर्ज् (अ)
बलमाणनयो (१ प.) अयमांकृत्या भादौ गण्यते ।
१५. ऊर्जु
" (१०-उ.) ।
१६ यम् (अ ) उपरमे (१ प.) इषुगमियमामि (२४००)

ति छः उपसर्गेणाकर्षणार्थः ।
१७ ऋछ् (अ) गतीन्द्रियप्रलयमूर्तिभावेषु
(इ-प.) ।
 
22
 
११
 
जमस्तु॥
 
Bhandarkar Oriental
Research Institute
 

(६-प.) ।