This page has not been fully proofread.

सप्रस्फोटम्.
 
विघाटयति चास्फोटन् वैरिणां करिणां घटाः ॥ २०१ ॥
सुखं निस्ते मुखं स्त्रीणां यत्मजा प्रीतिपालिता ॥
निक्षति स्तनवकोरुकपोलाक्षिललाटकम् ॥ २०२ ॥
निस्तर्नन्ति न दुःखार्तास्तद्देशे निरुपद्रवे ॥
स्तनयत्युग्रशब्देन पर्जन्योपि न भीतवत् ॥ २०३ ॥
रसति मधुरैः कण्ठैर्यस्योद्याने पतत्रिणः ॥
 
रसयन्ति च हृद्यानि तत्फलान्यनिवारिताः ॥ २०४ ॥
लर्जंते लाञ्च्छनस्येन्दोः क्षत्रियो श्रोत्रियो हासौ ॥
लेज्जते लज्जतीनां च वार्ताकर्णनतोपि यः ॥ २०१॥
यस्तोलयात दारिद्र्यकर्दमे पतितान्नरान् ।
तुलयसपि देवेन्द्रं संग्रामे भुजविक्रमात् ॥ २०६ ॥
न शोचंति शुभाचारो यो मृतानपि बान्धवान् ॥
' शोचयसतिनिःसारं संसारं सारधीरसौ ॥ २०७ ॥
नाहिर्दंशयते कंचित्तत्कृत्यगरुडाज्ञया ॥
यदि प्रमादादेशति तस्मिन्न क्रमते विषम् ॥ २०८ ॥
यं परिक्षिप्य लक्षं हि पदर्यन्ते पदातयः ।
आहवे जयलक्ष्मीच तस्य संपद्यते ध्रुवम् ॥ २०९ ॥
 
३१
 
39
 
१ घट् (अं) संघाते (१०-उ. ) । २ णिस् (इ.) [ निंस ] चुम्बने
(२- आ.) । ३ णिक्ष (अ ) [ निक्ष ] (१-प.) । ४ ष्टन्
(अ) [स्तन् ] शब्दे ( १ -प.) । ५ स्तन (०) देवशब्दे (१०-उ.)
६ रस् ( अ ) शब्दे (१-प.) । ७ रस ( ० ) आस्वादनस्नेहनयोः
(१०-उ. ) । ८ लज् (ओ-ई) ब्रीडने (६-आ.) । ९ लस्ज्
(ओ - ई ) [लज्ज् ]" (६-आ. ) । १० तुल् (अ) उन्माने
 
(१०-उ.) । ११ तुला (०) नामधातुरयम् । १२ शुच् (अ) शोके
(१-प.) । १३ स एव णिजन्तो ज्ञेयः । १४ दश ( इ ) [ दंश ] दंशने
(१०-आ.) । १५ दंश (अ ) [ दश ] दशने (१-प.) । अञ दंश-
सञ्जस्वज्जो शपी (२३९६) त्यनुखारलोपः ।१६ पद (०) गती (१-आ.) ।
१७ पद् ( अ ) ( ४-आ.) ।
 
FOUNDED
 
1917
 
॥जनमस्तु ।
 
Bhandarkar Oriental
Research Institute