This page has not been fully proofread.

३०
 
कविरहस्यम्
 
विष्णाति' विषवत् प्राणांस्त्रयीधर्मद्विषामसौ ॥
वेवेष्टि' विष्टपं तस्य कीर्तिः सर्वातिशायिनः ॥ १९३ ॥
निःशेषं शेषति क्रोधात् प्रतिपक्षक्षमापतीन् ॥
एकं शेषति यः शेषे भूभारभरणे ध्रुवम् ॥ १९४ ॥
क्षिपति प्रतिपक्षाणां हृदये भक्षजं ज्वरम् ॥
क्षिप्यन्ति श्रोत्रियाणां च निःकम्पेक्षणमत्र ये ॥ १९५ ॥
लपति स्निग्धया वाचा सर्वैरेव समं प्रभुः ॥
सकृद्दृष्टेन च प्रेम्णा साह्लादं लापयत्यसौ ॥ १९६ ॥
यौति काले कुलस्त्रीभिः क्षत्रसन्तानवृद्धये ॥
युनाति यौवनस्थोपि वेश्यायां बन्धकीजने ॥ १९७ ॥
न राजयति यः कांश्चित् प्राणिनः करुणान्वितः ॥
तस्य धर्मरते रोगा न रुजन्ति प्रजा अपि ॥ १९८ ॥
अन्तर्विद्यानसौ विप्रान् न म्लेच्छति घृतव्रतः ॥
न म्लेच्छयति धर्मज्ञो विवादे वादिभिः सह ॥ १९९ ॥
संपश्यते मतिर्यस्य त्रैलोक्येऽपि स्वगेहवत् ॥
संपश्यति परः सेनां सागरान्ते महीतले ॥ २०० ॥
विलोक्य यं विघटते कोपाटोपो मृगीदृशाम् ॥
 
१ विष् (अ) विप्रयोगे (९-प.) ।
२ विष् (ल) व्याप्तौ (३-उ.) निजां त्रयाणा ( २५०२)
मित्यभ्यासस्य गुण: ।
३ शिष् ( अ ) हिंसायाम् ( १ - प. ) ।
४ शिष् (अ) असर्वोपयोगे (१०-प.) णिजभावो वा ।
५ क्षिप् ( अ ) प्रेरणे ( ६-उ. ) ।
६ " (४-१.) ।
७ लप् (अ) व्यक्तायां वाचि (१ प. ) ।
८ स एव णिजन्तः ।
९ यु ( ० ) मिश्रगे अमिश्रणे च ( २-प. ) ।
१० यु (ञ) बन्धने (९-उ. ) अता-मिश्र गमर्थः सम्यागिति
भाति ।
११ रुज् ( अ ) हिंसायाम् (१०-उ. ) ।
१२ रुज् (ओ) भङ्गे (६-प.) ।
१३ म्लेच्छ् ( अ ) अव्यक्ते शब्दे ( १०-प. ) णिजभावः । १४ " ( १०-उ. )
१५ दृश (इर्) [ पश्य् ] प्रेक्षण ( १ - भा. ) आर्तिश्रुदृशिभ्य इति वार्तिकेन समुपसर्गवशादा-त्मनेपदम् ।
१६ " (१ प. ) ।
१७ घट् ( अ म् ष् ) चेष्टायाम् ( १-आ. ) ।