This page has been fully proofread once and needs a second look.

समस्फोटम्.
 
शीक[^१]न्ते शीकरासारैर्वायवो दक्षिणोदधेः ॥
शुभ्रावतीतरङ्गार्द्राः शीक[^२]यन्ति च यद्वपुः ॥ १८५ ॥
शब्दा[^३]यते तदास्थाने नाष्टष्टस्तेन कश्चन ॥
परं शब्द[^४]यति द्वास्थः पात्रागमनबोधनात् ॥ १८६ ॥
विल[^५]सन्ति रणे तुष्टा यस्य रङ्गोपजीविनः ॥
लास[^६]यन्ति रसाभिज्ञा यस्याग्रे भरतोत्तमाः ॥ १८७ ॥
विल[^७]यन्त्यबलानां च हृदये मदनव्यथाः ॥
विलापय[^८]न्ति यं दृष्ट्वा गुणवन्तोपि शत्रवः ॥ १८८ ॥
असौ प्रक्र[^९]मते युद्धमेकोपि बहुभिः सह ॥
नाका[^१०]मन्ति तथाप्येनं विक्रान्ता बहवोषि ते ॥ १८९ ॥
विय[^११]न्ति वीरसन्तानवृद्धौ यस्य कुलाङ्गनाः ॥
विजाय[^१२]न्तेऽवरोधाश्च यत्पुरे गृहवृद्धये ॥ १९० ॥
प्रथ[^१३]ते प्रियवद्यस्य पृथिव्यामुज्ज्वलं यशः ॥
प्रथ[^१४]यन्ति प्रथीयांसो गुणाः स्वर्गेऽपि निर्मलाः ॥ १९१ ॥
अ[^१५]मन्ति व्याधयोऽप्येनं न कदाचिद् भयादिव ॥
अम[^१६]यन्ति यमन्यं च तमनामीकरोति सः ॥ १९२ ॥
 
[^१] शीक् (ऋ) सेचने (१-आ. ) ।
[^२] शीक् (अ) " (१०-उ.) ।
[^३] शब्द नामधातुरयम् शब्दवैरकलहे (२६७३) ति क्यङ् , वृद्धिः ।
[^४] शब्द (अ) आविष्कारे (१०-उ. ) ।
[^५] लस् (अ) श्लेषणक्रीडनयोः ( १-प.) ।
[^६] लस् (अ) शिल्पयोगे (१०-उ.) ।
[^७] ली (०) द्रवीकरणे ( १०-प. ) णिजभावः ।
[^८] " णिजन्तस्य रूपम् । अर्ति-ह्रीत्यादिना पुगागमः ।
[^९] क्रम् ( उ ) पादविक्षेपे (१-प.) प्रोपाभ्या-(२७१५) मिति प्रारम्भार्थकत्वमात्मनेपदं च वोध्यम् ।
[^१०] " क्रमः परस्मै - (२३३२) इति दीर्घः ।
[^११] वी (०) गतिव्याप्तिप्रजनकान्त्यसन-खादनेषु (४-प.) अचि श्रुधात्वितीयङ् (इय्) ।
[^१२] जन् ( ई ) प्रादुर्भावे (४-आ.) ज्ञाजनो (२५११) रिति जा ।
[^१३] प्रथ् (अ, ष, म्) प्रख्याने ( १-आ.) ।
[^१४] प्रथ् ( अ ) ". ( १०-उ. ) ।
[^१५] अम् (अ) गतिशब्दसंभक्तेिषु ( १ -प.) ।
[^१६] अम् (अ) रोगे ( १०-उ. ) ।