This page has not been fully proofread.

समस्फोटम्.
 

 
शीकेन्ते शीकरासारैर्वायवो दक्षिणोदधेः ॥

शुभ्रावतीतरङ्गार्द्राः शीकंयन्ति च यद्वपुः ॥ १८५ ॥

शब्दायते तदास्थाने नाष्टष्टस्तेन कश्चन ॥
 

परं शब्दयति द्वास्थः पात्रागमनबोधनात् ॥ १८६ ॥

विलसन्ति रणे तुष्टा यस्य रङ्गोपजीविनः ॥

लासयन्ति रसाभिज्ञा यस्याग्रे भरतोत्तमाः ॥ १८७ ॥

विलयन्त्यबलानां च हृदये मदनव्यथाः ॥
 

विलापर्यन्ति यं दृष्ट्वा गुणवन्तोपि शत्रवः ॥ १८८ ॥

असौ प्रक्रमंते युद्धमेकोपि बहुभिः सह ॥
 

नाकामन्ति तथाप्येनं विक्रान्ता बहवोषि ते ॥ १८९ ॥

वियन्ति वीरसन्तानवृद्धौ यस्य कुलाङ्गनाः ॥

विजीजायन्तेऽवरोधाश्च यत्पुरे गृहवृद्धये ॥ १९० ॥

प्रथते प्रियवद्यस्य पृथिव्यामुज्ज्वलं यशः ॥

प्रथयन्ति प्रथीयांसो गुणाः स्वर्गेऽपि निर्मलाः ॥ १९१ ॥
 

मन्ति व्याधयोऽप्येनं न कदाचिद् भयादिव ॥

अमयन्ति यमन्यं च तमनामीकरोति सः १९२ ॥
 
"
 

 
१ शीक् (ऋ) सेचने (१-आ. ) ।
२ शीक (अ)क् (अ) " (१०-उ.) ।

३ शब्द नामधातुरयम् शब्दवैरकलहे (२६७३) ति क्यङ् , वृद्धिः ।

शब्द (अ) आविष्कारे (१०-उ. ) ।
५ लस् (अ) श्लेषणक्रीडनयोः
( १-प.) ।
( १-प.) ।
६ लस् (अ) शिल्पयोगे (१०-उ.) ।
७ ली (०)
द्रवीकरणे ( १०-प. ) णिजभावः ।
८ " णिजन्तस्य रूपम् । अर्ति-
हो
ह्रीत्यादिना पुगागमः ।
९ क्रम् ( उ ) पादविक्षेपे (१-प.) प्रोपाभ्या-

(२७१५) मिति प्रारम्भार्थकत्वमात्मनेपदं च वोध्यम् ।
१०
" क्रमः परस्मै - (२३३२) इति दीर्घः ।
११ वी (०) गतिव्याप्तिप्रजनकान्त्यसन-

खादनेषु (४-प.) अचि श्रुधात्वितीयङ् (इय्) ।
१२ जन् ( ई ) माप्रादु-
र्भावे (४-आ.) ज्ञाजनो (२५११) रिति जा ।
१३ प्रथ् (अ, ष, म्)
प्रख्याने ( १-आ.) ।
१४ प्रथ् ( अ )
". ( १०-उ. ) ।
१५
अम् (अ) गतिशब्दसंभक्तेिषु ( १ -प.) ।
( १०-उ. ) ।
 
क्रम:
 
2)
 
(१० - उ.
 

१६ अम् (अ)
 
रोगे.
 
२९
 
NSTIT
INS
POONY
 
FOUNDED
 
1917
 
॥ तंजस्विनावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute
 
( १०-उ. ) ।